भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 125, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 125

१०६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः । ग्रहणीरोगहन्ता च रक्तातीसारनाशनः ॥ ३१ ॥ अस्य शुद्धिस्तु महाशङ्खवद्बोध्या ॥ २ ॥ अथ शुक्तिः । 'शिंपी' 'छिप' इति भाषा । तन्नामानि यथा राजनिघण्टौ— शुक्तिर्मुक्ताप्रसूर्श्चैव महाशुक्तिश्च शुक्तिका ॥ मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकसूर्मुक्तामाता मौक्तिकमन्दिरम् ॥ ३२ ॥ अथ गुणाः— मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥ जलशुक्तिकानामानि— जलशुक्तिर्वारिशुक्तिः कृमिभूः क्षुद्रशुक्तिका । जम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ ३४ ॥ अथ गुणाः— जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् । विषदोषहरा रुच्या पाचनी बलदायिनी ॥ ३५ ॥ अनयोः शोधनं गुणाश्च— शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी । शोधनं शङ्खवत्तस्य मृतिः प्रोक्ता कपर्दवत् ॥ ३६ ॥ अथ कृष्णमृत्तिकानामगुणाः । 'कालीमाटी' इति भाषा । मृन्मृत्तिका प्रशस्ता तु मृत्स्ना मृत्सा च मृत्तिका । कृष्णमृत्क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् ॥ ३७ ॥ अथ पङ्कः । 'काद्व' इति भाषा । तन्नामगुणाः— [पार्श्वे हस्तलिखितम्: चरके] पङ्कः कर्दम इत्युक्तो जम्बालः पङ्किलस्तथा । पङ्को दाहास्रपित्तार्तिशोफघ्नः शीतलः सरः ॥ ३८ ॥