भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 124, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 124

१०. ] आयुर्वेदप्रकाशः । १०५ नालं वा वाजिवालस्येत्येवं कङ्कुष्ठके भ्रमः । शुण्ठ्यम्बुभावितं शुद्धिं कङ्कुष्ठमुपगच्छति ॥ २३ ॥ अथ कङ्कुष्ठगुणाः ।— कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् । कृमिशोषोदराध्मानगुल्मानाहकफापहम् ॥ २४ ॥ अन्यच्च— बब्बूलमूलिकाक्वाथजीरसौभाग्यटङ्कणम् । कङ्कुष्ठविपनाशाय भूयो भूयः पिबेन्नरः ॥ २५ ॥ अथ सौराष्ट्री । 'सोरठीमाती' इति भाषा ॥ सौराष्ट्री तुवरी काङ्क्षी मृत्तालकसुराष्ट्रजे । आढकी सापि च ख्याता मृत्स्ना च सुरमृत्तिका ॥ २६ ॥ स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः । तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ॥ २७ ॥ अथान्येऽप्युपरसाः सन्ति यथा— अथ समुद्रफेननामगुणशोधनम् । अब्धिफेनोऽब्धिसारः स्यादब्धिजश्च समुद्रजः । समुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः ॥ २८ ॥ कर्णस्रावरुजागूत्थहरः पाचनदीपनः । अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् । समुद्रफेनः संपिष्टो निम्बुतोयेन शुध्यति ॥ २९ ॥ इति समुद्रफेनः ॥ अथ क्षुद्रशङ्खः । 'क्षुद्रशंखः' 'घोंघा' इति भाषा । तन्नामगुणाः— क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः । शम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ॥ ३० ॥