आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 123, कुल 232 में से
संदर्भ में पढ़ें१०४ आयुर्वेदीयग्रन्थमाला । [अध्यायः जरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् । चक्षुष्यं च सरं प्रोक्तं रक्तबोलं भिषग्वरैः ॥ १५ ॥ इति रक्तबोलम् ॥ श्यामबोलं तीक्ष्णगन्धं दद्रुकण्डूविषापहम् । कुष्ठापस्मारब्रध्नाशोरक्तग्रन्थिं च नाशयेत् ॥ १६ ॥ इति श्यामबोलम् ॥ अथ तृतीयं श्यामबोलम् ।— अपरं मानुषं बोलं सद्योव्रणविषापहम् । भग्नास्थिसन्धिजननं त्रिदोषशमनं हिमम् ॥ १७ ॥ धातुकान्तिवयःस्थैर्यवलौजोवृद्धिकारकम् । प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् ॥ १८ ॥ इति मोमियाई ॥ अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः । हिमाचलैकदेशे तु कङ्कुष्ठमुपजायते । तत्रैकं नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥ पीतप्रभं गुरु स्निग्धं कङ्कुष्ठं शिलया समम् । मृद्वतीव शलाकाभं सच्छिद्रं नलिकाभिधम् ॥ २० ॥ रेणुकाख्यं तु कङ्कुष्ठं श्यामपीतरजोन्वितम् । त्यक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ॥ २१ ॥ अथ नामानि— कङ्कुष्ठं काककुष्ठं च वराङ्गं कोलवालुकम् । अत्र केचित् ।— सद्योजातस्य करिणः शकृत्कङ्कुष्ठमुच्यते । यद्वा सद्यः प्रसूतस्य वाजिवालस्य विट् स्मृतम् ॥ २२ ॥