आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 122, कुल 232 में से
संदर्भ में पढ़ें१०. ] आयुर्वेदप्रकाशः । १०३ पादोननिष्कमभारा च कनिष्ठा परिकीर्तिता । वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ६ ॥ इति शोधनम् ॥ अङ्गाराग्नौ स्थिता ध्माता सम्यक्प्रोत्फुल्लिता यदा । स्वाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥ इति भस्म ॥ कपर्दिका हिमा नेत्रहिता स्फोटक्षयापहा । कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ ८ ॥ अन्यत्र— कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी । रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ९ ॥ अथ सिकता । 'वालु' इति भाषा ॥ वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च । वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥ स्वेदप्रयोगतश्चैव शाखाशैत्यानिलापहा । तद्वच्च लेखनी प्रोक्ता व्रणोरःक्षतनाशिनी ॥ ११ ॥ शर्कराभ्यश्चुम्बकेन केचिद्गृह्णन्त्ययोरजः । सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥ इति सिकतालोहरजोग्रहणप्रकारः ॥ अथ बोलस्य नामलक्षणगुणाः । बोलगन्धरसप्राणपिण्डगोपरसाः समाः । बोलं तु त्रिविधं प्रोक्तं रक्तं श्यामं मनुष्यजम् ॥ १३ ॥ गुणाः— बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । मधुरं कटुकं तिक्तं ग्रहखेदत्रिदोषनुत् ॥ १४ ॥