आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 137, कुल 232 में से
संदर्भ में पढ़ें११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् । कृत्रिमं चापि भवति वङ्गादेः सूतयोगतः ॥ ७८ ॥ अन्ये तु— रूप्यं त्रिधा स्यात्सहजं कृत्रिमं खनिसंभवम् । कैलासादिस्थितं यद्धि सहजं रजतं हि तत् ॥ ७९ ॥ रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् । हिमाचलादिभूमौ च जायते खनिजं च तत् ॥ ८० ॥ मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् । गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षमम् ॥ ८१ ॥ वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् । कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ॥ ८२ ॥ गुणाः— रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ ८३ ॥ प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् । गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशिनी ॥ ८४ ॥ रसपद्धत्याम्— अपकरजतं नैव संयोज्यं स्वर्णवद्गदे । पक्वं भस्मापि तन्नैव योज्यं ताम्रादिभस्मवत् ॥ ८५ ॥ व्यवहाराभावतः किंच श्वेतकुष्ठहरं हि तत् । इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादिषु ॥ ८६ ॥ गुणग्रन्थेऽपि क्वचित्— प्रोक्तकर्मसु संयोज्यं रजतं हि विधानतः । इति ॥ अथाशुद्धरजतमारणे दोषमाह— तारं शरीरस्य करोति तापं विड्बन्धतां यच्छति शुक्रनाशम् । वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥