आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 138, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । ११९ अथ रजतमारणम् । तत्रास्य विशेषशोधनम् । उक्तं च— तैलतक्रादिशुद्धस्य रजतस्य विशेषतः । शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ॥ ८८ ॥ पत्रीकृतं तु रजतं प्रतप्तं जातवेदसि । निर्वापितमगस्त्यस्य रसे वारत्रयं शुचि ॥ ८९ ॥ तारं तप्तं त्रिधा क्षिप्तं तैले ज्योतिष्मतीभवे । खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥ ९० ॥ तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् । जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः । इत्थं संशोधितं रूप्यं मृतं योज्यं रसादिषु ॥ ९१ ॥ अथ मारणम्— विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् । तालं गन्धं समं शुद्धं तन्मर्द्यं निम्बुकद्रवैः ॥ ९२ ॥ गोलकीकृत्य संशुद्धं मूषायां स्वर्णवद्दृढम् । द्वित्रैः पुटैर्भवेद्भस्म योज्यमेतद्रसादिषु ॥ ९३ ॥ इति सरसं रूप्यभस्म । मतान्तरम्— हिङ्गुलेन च माक्षिकेण वलिना तुल्येन जम्भाम्भसा लिप्तं रौप्यदलं पुटेन पटुना स्याद्भस्म मूषास्थितम् ॥ ९४ ॥ पटुना पुटेन गजपुटेन । मतान्तरम्— तारपत्रं तुर्यभागं भागैकं शुद्धतालकम् । एतज्जम्बीरजद्रावैः कल्कीकृत्याखिलं भिषक् ॥ ९५ ॥ तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः । शरावसंपुटे तेषामूर्ध्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥ तारतुल्यं ततस्तानि रुद्धा गजपुटे पचेत् । त्रिंशदुत्पलकैर्वाऽपि विंशद्भिस्तारपञ्चता ॥ ९७ ॥