आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 130, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । १११ मतान्तरम् ।— मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः । सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥ अन्यच्च— सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः । काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥ इति स्वर्णशोधनम् । अत्र केचित् ।— इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते । तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥। अथ स्वर्णनामानि— स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥ चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् । जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥ अथ सदसत्सुवर्णलक्षणम्— दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥ यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥ दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥ दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः— स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् । प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥ दाहेऽतिरक्तमथ यत्ससितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।