आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 152, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । १३३ रीरसेन मर्दयेत्, तदुपरि अर्कदुग्धेन मर्दयेत् प्रहरैकं, पश्चात्त- चक्रिकां कृत्वा संशोष्य शरावसंपुटे धृत्वा पञ्चपट्टकपरिमितै- र्वनोपलैः पुटेत्, तदुत्तरं तस्य सहदेव्या रसेन पुटैकं दद्यात्, ततः सिद्धो जातः । अथ प्रयोगः—रक्तिकाद्वयमस्य वाकुची- चूर्णेन सह देयं दिनानि चत्वारिंशत्, पथ्यं गोधूमतिलतैलं, औषधं भक्षयित्वा घर्मे प्रहरैकं स्थेयं, ततोऽल्पदिनैर्मण्डलपा- काञ्जलस्रावोत्तरं क्रमेण सवर्णता । देवदारुदारुचिनीवाकुची- युक्तं गलत्कुष्ठे, त्रिकटुदेवदारुयुक्तं वातरक्ते, मूत्रकृच्छ्रे वाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इति नागेश्वरो रसः ॥ अथ लोहस्योत्पत्तिनामलक्षणभेदगुणशोधन- मारणानि । पुरा लोमिलदैत्यस्य निहतस्य सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि वै ॥ १९४ ॥ अथ नामानि— लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । मुण्डं तीक्ष्णं तथा कान्तमिति लोहं त्रिधा स्मृतम् ॥ १९५ ॥ मुण्डं तु त्रिविधं तत्र मृदु कुण्ठं कडारकम् । तीक्ष्णकं षड्विधं प्राहुः खराख्यं सारसंज्ञकम् ॥ १९६ ॥ हुन्तालमपरं तारावहं वाजिरकालकम् । कान्तं पञ्चविधं ज्ञेयं आमकं चुम्बकं तथा ॥ १९७ ॥ कर्षकं द्रावकं तद्वद्रोमकान्तं च पञ्चमम् । एकास्यं द्विमुखं त्र्यास्यं वेदास्यं शरवक्त्रकम् । सर्वतोमुखमित्येवमुत्तमाधमकान्तकम् ॥ १९८ ॥ लक्षणम्— भेदानां लक्षणान्यत्र न संप्रोक्तानि गौरवात् । आख्यया प्रस्फुटानि स्युर्मुख्यानां लक्ष्म कथ्यते ॥१९९॥ १२