आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 153, कुल 232 में से
संदर्भ में पढ़ें१३४ आयुर्वेदग्रन्थमाला । [अध्यायः मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते । गजवह्व्यादि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥ अन्यच्च— मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः । खड्गादिशस्त्रभेदाः स्युः, कान्तलोहं तु दुर्लभम् ॥ २०१ ॥ मुण्डाच्छतगुणं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् । तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ॥ २०२ ॥ 'मारणाय' इति शेषः । अथ तीक्ष्णकान्तयोर्विशेषलक्षणानि— कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् । तीक्ष्णलोहं तदुद्दिष्टं मारणायोत्तमं विदुः ॥ २०३ ॥ अन्यच्च— क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मर्दिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ २०४ ॥ अस्य गुणाः— लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् । अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् ॥ छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ॥ २०५ ॥ अथ कान्तलक्षणगुणाः— यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बकल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहं तदुक्तम् ॥२०६ कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ । शूलोदरार्शःप्लीहानमामवातं भगन्दरम् ॥ २०७ ॥ अम्लपित्तं यकृच्चापि शिरोरोगं हरेद्ध्रुवम् । १ 'लेपिते' ग. ।