आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 154, कुल 232 में से
संदर्भ में पढ़ें११. ] आयुर्वेदप्रकाशः । १३५ बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्धयेत् । सर्वान् गदान् विजयते कान्तलोहं न संशयः ॥ २०८ ॥ अथ सामान्यगुणाः— लोहं शीतं सरं तिक्तं मधुरं तुवरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं, जयेत् ॥ २०९ ॥ कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः । मेदोमेहकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ॥ २१० ॥ अथलोहदोषाः— गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अश्मदोषः सदुर्गन्धो दोषाः सप्तायसः स्मृताः ॥ २११ ॥ अथाशुद्धगुणाः— षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरीं च । नानारुजानां च तथा प्रकोपं करोति हल्लासमशुद्धलोहम् २१२ अथासम्यङ्मारितस्य गुणाः— जीवहारि मदकारि चायसं देहशूलकृदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजां च यच्छति २१३ अथ केचित्— न रसेन विना लोहं न लोहं चाभ्रकं विना । एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ २१४ ॥ पारदेन विना लोहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ २१५ ॥ वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अथानुपान- मेतस्य— त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् । पथ्याशिनां लोहभस्म यथोक्तगुणदं भवेत् ॥ २१६ ॥