आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 157, कुल 232 में से
संदर्भ में पढ़ें१३८ आयुर्वेद्रीयग्रन्थमाला । [ अध्यायः अन्यत्रापि— तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् । कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ २३३ ॥ अत्रान्योऽपि विशेषः— तत्तद्व्याध्युपयुक्तानामौषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ २३४ ॥ ततः सामान्यविशेषशोधनतः । अन्यच्च— सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥ इति विशेषशोधनम् । अथ भस्मप्रकारः— संशुद्धं लोहचूर्णं तु समानीय भिषग्वरः । अपक्वतिन्दुकफलरसैः संमर्दयेद्दिनम् ॥ २३६ ॥ त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च । पुटानि त्रीणि दत्तानि सत्यं वारितरं भवेत् ॥ २३७ ॥ तत्तद्रोगानुपानेन सर्वरोगहरं भवेत् । लाला अनूपरायेण उपदिष्टं न संशयः ॥ २३८ ॥ शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । द्वयोः समं सारचूर्णं मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥ यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः । ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥ संमुद्र्य वदनं तस्य मृदा संशोष्य तत्पुनः । त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत् ॥ २४१ ॥ रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् । सोमामृताभिदमिदं लोहभस्म प्रकीर्तितम् ॥ २४२ ॥ इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धत्यां सूर्यतापि लोहभस्म उक्तम्—