आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 158, कुल 232 में से
संदर्भ में पढ़ें११. ] आयुर्वेदप्रकाशः । १३९ शाणोद्धान्तमयस्तु कान्तमथवा क्षित्त्वार्द्धलेलीतकं दत्त्वाऽङ्घ्र्यंशरसं विमर्द्य सलिलैर्भृङ्गाद्रिकर्णीरसैः । पक्वं सूर्यपुटैश्चतुर्दशदिनैरेण्डपत्रावृतं भस्म स्याद्गृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् २४३ व्याख्या—संशुद्धं लोहं शाणोद्धान्तं शाणं शस्त्रोत्तेजकं शस्त्रं तत्र घर्षणेन उद्धान्तं पतितमयः सारलोहं, अथवा तेनैव प्रकरेण पतितं कान्तलोहं, तत्रार्धलेलीतकं गन्धकं क्षित्त्वा, तत्र चतुर्थांशं शुद्धपारदं च दत्त्वा, सर्वं विमर्द्य पूर्वं शुष्कमेव मर्दयित्वा, पश्चात्सलिलैः काञ्जिकादिभिः, पश्चाद्भृङ्गरसेन तथा अद्रिकर्णी गिरिकर्णी तस्याः स्वरसै- र्विमर्द्य, सूर्यपुटैः पक्वं चतुर्दशदिनैर्भावनाभिः, पश्चादे- रण्डपत्रावृतं गोलकं कृत्वा धान्यराशिस्थं त्रिदिनं, गृहधूमधू- सररुचि अलिन्दधूमतुल्यं भस्म स्यात् । अत्र सूर्यपुटानि प्रातः- कालादारभ्य सन्ध्यापर्यन्तं शुष्कमर्दनेन संपादनीयानि, भावना तु सन्ध्यायां यथाऽऽर्द्रभावं संपद्यते तथा कार्या । अत्र भावनानियमो नास्ति, मर्दनस्यैव भस्मसंपादनत्वात् । इति सूर्यतापि लोहभस्म । मतान्तरम्— सत्यानुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे । कथ्यते रामराजेन कौतूहलधियाऽधुना ॥ २४४ ॥ यथा— सूतकाद्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् । द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ २४५ ॥ यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वा रुब्रूकस्य पत्रैराच्छादयेद्बुधः ॥ २४६ ॥ यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः । १ 'कौतूहलविधायिना' ग. ।