आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 160, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । १४१ तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् । कुमारीनीरतः श्लक्ष्णं पुटेद्गजपुटेन तु ॥ २५२ ॥ त्रिवारं त्रिफलाक्वाथैस्तत्संख्यैरपि तत्त्ववित् । निरुत्थं जायते लोहं त्रिधाऽप्यत्र न संशयः ॥ २५३ ॥ इत्यग्निपक्वं षट्पुटि लोहभस्म । मतान्तरम्— निम्बूफलस्य पानीयैः सकासीसैः प्रपूरिते । कांस्यपात्रे क्षिपेत्खड्गखण्डांश्चण्डातपस्थितान् ॥ २५४ ॥ दिनैकेन स्फुन्त्येते दिनान्ते तांस्तु पेषयेत् । त्रिफलाक्वाथपिष्टं तच्चूर्णं गजपुटे पचेत् ॥ २५५ ॥ पौनःपुन्येन यावत्स्यात्तद्वारितरमुत्तमम् । ततः पारदगन्धाभ्यां तत्समाभ्यां हि मर्दितम् ॥ पूर्ववद्धान्यराशिस्थं तीक्ष्णं सर्वोत्तमं भवेत् ॥ २५६ ॥ इति लोहभस्म । मतान्तरम्— लोहं पत्रमतीव तप्तमसकृ(१००)त्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमिदं पुनस्त्रिफलजे क्वाथे पचेद्गोजले । मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवे- त्पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेदायसम् ॥२५७॥ मत्स्याक्षी शालञ्ची । इति लोहभस्म । मतान्तरम्— परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् । म्रियेत वस्त्रावृतमर्कभासा योग्यं पुटैः स्यात्त्रिफलादिकानाम् ॥ इति लोहभस्म । मतान्तरम्— लोहचूर्णं पलं खल्वे सोरकस्य पलं तथा । अच्छगन्धपलं चापि सर्वमेकत्र मर्दयेत् ॥ २५९ ॥ कुमार्यद्भिर्दिनं कुर्याद्गोलकं रुबुपत्रकैः । संवेष्ट्य च मृदा लिप्त्वा पुटेद्गजपुटे भिषक् ॥ २६० ॥