आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 161, कुल 232 में से
संदर्भ में पढ़ें१४२ आयुर्वेदीयग्रन्थमाला । [अध्यायः स्वाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः । मृतं वारितरं ग्राह्यं सर्वकार्यकरं परम् ॥ २६१ ॥ इत्येकपुटि लोहभस्म । सर्वमेव मृतं लोहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थं तु सेव्यं वारितरं हि तत् ॥ २६२ ॥ मधुघृतगुग्गुलुगुञ्जाटङ्कणमेतत्तु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नौ प्रधमनेन ॥ २६३ ॥ मध्वाज्यं मृतलोहं च सरूप्यं संपुटे क्षिपेत् । रुद्धा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् ॥ तदा लोहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ २६४ ॥ इति मृतामृतलोहपरीक्षा । गन्धकेनोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ इत्येवं सर्वलोहानां कर्त्तव्येयं निरुत्थितिः ॥ २६५ ॥ इत्यपक्वस्य निरुत्थीकरणम् । अथ मृतलोहस्यामृतीकरणम्— द्विगुणे त्रिफलाक्वाथे तुल्ये पिष्ट्वाऽप्ययोरजः । विपचेन्मध्यपाकेन सर्वव्याधिजरापहम् ॥ २६६ ॥ इत्यमृतीकरणम् । जम्बीररससंयुक्ते दरदे तप्तमायसम् । बहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ २६७ ॥ अथ लोहद्रुतिः— देवदाल्या रसैर्भाव्यं गन्धकं दिनसप्तकम् । तस्य प्रवापमात्रेण लोहास्तिष्ठन्ति सूतवत् ॥ २६८ ॥ सुरदालिभवं भस्म नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्षारावापात्कान्तद्रुतिर्भवेत् ॥ २६९ ॥ इति कान्तद्रुतिः ।