भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 162, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 162

११.] आयुर्वेदप्रकाशः । १४३ अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि । ध्मायमानमयो वह्नौ परित्यजति यन्मलम् । तत् किट्टसंज्ञां लभते तदनेकविधं मतम् ॥ २७० ॥ उक्तं च— ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहानं च निगद्यते ॥ यस्य लोहस्य यत्प्रोक्तं तत्किट्टमपि तद्गुणम् ॥ २७१ ॥ लक्षणानि— ईषच्छोणं गुरु स्निग्धं मुण्डकिट्टं जगुर्बुधाः । भिन्नाञ्जनप्रभं किट्टं विशेषाद्गुरु निर्व्रणम् ॥ २७२ ॥ निःकोटरं च विज्ञेयं तीक्ष्णकिट्टं मनीषिभिः । पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् ॥ छिन्नं तु रजतच्छायं स्यात्तत्किट्टं तु कान्तजम् ॥ २७३ ॥ अन्यच्च— अकोटरं गुरु स्निग्धं दृढं शतसमाधिकम् । चिरोज्झितजनस्थानसंस्थितं किट्टमाहरेत् ॥ २७४ ॥ शतोत्थमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥ २७५ ॥ अथ किट्टमारणम्— अक्षाङ्गारैर्धमेत्किट्टमक्षपात्रस्थगोजले । निर्वापयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥ तच्चूर्णं मधुना लीढं पाण्डुं हन्ति सकामलम् ॥ २७६ ॥ अथ किट्टगुणाः— किट्टं कषायं शिशिरं पाण्डुश्वयथुशोफजित् । हलीमकं कामलां च हरते कुम्भकामलाम् ॥ २७७ ॥