आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 174, कुल 232 में से
संदर्भ में पढ़ें१२.] आयुर्वेदप्रकाशः । १५५ सुवर्णरीतिचूर्णमन्नादिना छागेन भक्षितं तद्विष्ठां खर्परे लिप्त्वा पश्चात्तत्खर्परं दग्धं रीतिं मुञ्चति । तां रीतिमेकीकृत्य, आवर्त्य, मुद्रिकां कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति । अथोभयोः शोधनमारणम्— पत्तलीकृतपत्राणि कांस्यरीत्योः प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ ७१ ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते ॥ ७२ ॥ विशेषशोधनं यथा— गोमूत्रेण पचेद्यामं कांस्यपत्राणि बुद्धिमान् । दृढाग्निना विशुध्यन्ति पक्वान्यम्लद्रवेऽपि वा ॥ ७३ ॥ रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते । निषिक्ता शुद्धिमायाति पक्वा वाऽम्लद्रवेऽपि च ॥ ७४ ॥ अथ मारणम्— अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् । समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ॥ ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च । एवं पुटद्वयात्कांस्यं रीतिश्च म्रियते ध्रुवम् ॥ ७६ ॥ अन्यच्च— कांस्यकं राजरीतिं च ताम्रवच्छोधयेद्भिषक् । ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥ अथ भर्तसंज्ञं पञ्चलोहं पञ्चरत्ननामकमधि- कोपधातुर्भवति । यथा— कांस्यं रीतिस्तथा ताम्रं नागो वङ्गश्च पञ्चमः । एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥