आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 175, कुल 232 में से
संदर्भ में पढ़ें१५६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः नामानि— पञ्चलोहं पञ्चरसं वर्तुलं भर्तमित्यपि । व्यञ्जनं सूपमन्यच्च तद्भाण्डे साधितं शुभम् ॥ ७९ ॥ आदौ तैलादिके शोध्यं पश्चात्तप्त्वाऽजमूत्रके । निषिक्तं शुद्धिमायाति पञ्चलोहं न संशयः ॥ ८० ॥ अर्कक्षीरेण संपिष्टगन्धतालकलेपनात् । पञ्चकुम्भिपुटैर्भर्तं म्रियते योगवाहकम् ॥ ८१ ॥ इति भर्तमारणम् ॥ घृतवर्जं बुधैः सर्वं पाच्यं कांस्यस्य पात्रके । भोजनं तु प्रशस्तं स्याद्रीतिका मध्यमा स्मृता ॥ ८२ ॥ अथ सिन्दूरम् । सिन्दूरं रक्तरेणुश्च नागगर्भं च सीसकम् । सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम् ॥ ८३ ॥ संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः । सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम् । भग्नसन्धानजननं व्रणशोधनरोपणम् ॥ ८४ ॥ अथ शोधनं; तत्र शोधनयोग्यसिन्दूरलक्षणम्— सुरङ्गोऽग्निसहः स्निग्धः सूक्ष्मः स्वच्छो गुरुर्मृदुः । सुवर्णकिरजः शुद्धः सिन्दूरो मङ्गलप्रदः । दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥ ८५ ॥ मतान्तरम्— सिन्दूरं निम्बुकद्रवैः पिष्ट्वा घर्मे विशोषयेत् । ततस्तण्डुलतोयेन तथाभूतं विशुद्ध्यति ॥ ८६ ॥ सिन्दूरस्य प्रयोगो हि न दृष्टः कुत्रचित् पृथक् । तस्मादुक्तस्थले योज्यमुपदेशो गुरोरिति ॥ ८७ ॥