आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 177, कुल 232 में से
संदर्भ में पढ़ें१५८ आयुर्वेदौयग्रन्थमाला । [अध्यायः छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ ९८ ॥ मूत्रकृच्छ्रं क्षयं श्वासं वातास्राशांसि पाण्डुताम् । अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन् ॥ ९९ ॥ अथाशुद्धशिलाजतुगुणाः- अशुद्धं दाहमूर्च्छार्यभ्रमपित्तास्रशोफकृत् । शिलाजतु प्रकुरुते मान्द्यमग्नेश्च विड्रहम् ॥ १०० ॥ अथ शोधनम्- शिलाजतु समानीय लोहजं लक्षणान्वितम् । वहिर्मलमपाकर्तुं क्षालयेत्केवलाम्बुना ॥ १०१ ॥ अथ तस्यान्तर्मलविनाशोपायमाह हारीतः- लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत् । संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ १०२ ॥ सन्तानिका अन्तःसंमिश्रिता दुष्टमृत्तिका । अत्र भावनार्थं क्वाथकल्पनामाह वाग्भटः- तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम् । तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥ १०३ ॥ तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः । स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त ॥ १०४ ॥ अथैवं भावनां दत्त्वा, संशोष्य, केवलेन जलेन शोधनं कर्तव्यम्। तत्प्रकारमाहाग्निवेशः- उष्णेऽथ काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे । चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः १०५ शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्द्विगुणं च तोयम् । उष्णं तदर्धं कथितं च दत्त्वा विशोधयेत्तन्मृदितं यथावत् १०६ सुवस्त्रपूतं प्रविधाय तन्तु संस्थापनीयं पुनरेव तत्र । ततस्तु यत्कृष्णमुपैति चोर्ध्वं संतानिकावद्रविरश्मितप्तम् १०७