आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 178, कुल 232 में से
संदर्भ में पढ़ें१२.] आयुर्वेदप्रकाशः । १५९ पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजलं निधाय । ततश्च तस्साद्परत्र पात्रे तस्साच्च पात्रादपरत्र भूयः ॥ १०८ ॥ पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहतं तत्पुनराहरेच्च । यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् १०९ तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् । चतुर्थपात्राद्गलितं हि सर्वं परीक्षणं तस्य वदामि भूयः॥११०॥ यथा— वह्नौ क्षिप्तं तु निर्धूमं पक्त्वा लिङ्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् । गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥ १११ ॥ एवं शुद्धस्य गुणाः प्रागुक्ताः । अथ नामानि— शिलाजत्विन्द्रजतु च शैलनिर्यास इत्यपि । गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥ अथ शीघ्रकार्यवशात्संक्षिप्तशोधनं यथा— गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु । दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयम् ॥ ११३ ॥ इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना प्रोक्ता— त्रिफलावारिगोदुग्धमूत्रैर्भाव्यं शिलाजतु । स्वल्पं स्वल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥ अगुर्वादिशुभैर्धूपैर्धूपयेत्तत्प्रयत्नतः । मात्रया शीलयेत्पश्चात्स्निग्धशुद्धो यथाविधि ॥ ११५ ॥ एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥ क्षीरेणालोडितं कुर्याच्छीघ्रं रसायनं फलम् । हन्याद्रोगानशेषांश्च जीर्णे हितमिताशनः ॥ ११७ ॥