भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 179, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 179

१६० आयुर्वेदौयग्रन्थमाला । [अध्यायः व्यायामातपमारुतचेतःसंतापगुरुविदाह्यादि । उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥ कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् । पिवेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥ ११९ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति १२० सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् । जयत्यभ्यासतो नूनं तांस्तान् रोगान्न संशयः ॥ १२१ ॥ रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२ ॥ अस्य भस्मप्रकारो रसपद्धत्याम्— शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥ सत्त्वप्रकारस्तु— पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । रुद्ध्वा मूषोदरे ध्मातं कोकिलैः सत्त्वमृच्छति ॥ १२४ ॥ अथ द्वितीयं शिलाजतु रसपद्धत्याम्— द्वितीयं सोरकाख्यं स्याच्छ्वेतवर्णं शिलाजतु । अंग्रिवाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५ ॥ उक्तं च— पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु । मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ १२६ ॥ १ रसपद्धत्यामेवं पठ्यते,—“वह्न्युत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हि- तम्”—इति; “वह्न्युत्तेजनमिति यदपरं श्वेतं शिलाजतु तद्वह्न्युत्तेजकं वह्निप्रदी- पकं; अत्र जठराग्निर्न ग्राह्यः, किंतु अग्निशस्त्राणि, तन्नाग्नेः प्रदीपकः, 'सोरा' इति लोके प्रसिद्धः, अग्निवाणेषु (अग्न्यस्त्रेषु ‘दारु-वारुद Gunpowder’ इति प्रसिद्धपदार्थनिर्माणार्थे ) प्रयुज्यते” इति रसपद्धतिटीकायां महादेवः ।