आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
१२.] आयुर्वेदप्रकाशः । १५९ पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजलं निधाय । ततश्च तस्साद्परत्र पात्रे तस्साच्च पात्रादपरत्र भूयः ॥ १०८ ॥ पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहतं तत्पुनराहरेच्च । यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् १०९ तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् । चतुर्थपात्राद्गलितं हि सर्वं परीक्षणं तस्य वदामि भूयः॥११०॥ यथा— वह्नौ क्षिप्तं तु निर्धूमं पक्त्वा लिङ्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् । गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥ १११ ॥ एवं शुद्धस्य गुणाः प्रागुक्ताः । अथ नामानि— शिलाजत्विन्द्रजतु च शैलनिर्यास इत्यपि । गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥ अथ शीघ्रकार्यवशात्संक्षिप्तशोधनं यथा— गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु । दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयम् ॥ ११३ ॥ इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना प्रोक्ता— त्रिफलावारिगोदुग्धमूत्रैर्भाव्यं शिलाजतु । स्वल्पं स्वल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥ अगुर्वादिशुभैर्धूपैर्धूपयेत्तत्प्रयत्नतः । मात्रया शीलयेत्पश्चात्स्निग्धशुद्धो यथाविधि ॥ ११५ ॥ एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥ क्षीरेणालोडितं कुर्याच्छीघ्रं रसायनं फलम् । हन्याद्रोगानशेषांश्च जीर्णे हितमिताशनः ॥ ११७ ॥
१६० आयुर्वेदौयग्रन्थमाला । [अध्यायः व्यायामातपमारुतचेतःसंतापगुरुविदाह्यादि । उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥ कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् । पिवेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥ ११९ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति १२० सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् । जयत्यभ्यासतो नूनं तांस्तान् रोगान्न संशयः ॥ १२१ ॥ रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२ ॥ अस्य भस्मप्रकारो रसपद्धत्याम्— शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥ सत्त्वप्रकारस्तु— पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । रुद्ध्वा मूषोदरे ध्मातं कोकिलैः सत्त्वमृच्छति ॥ १२४ ॥ अथ द्वितीयं शिलाजतु रसपद्धत्याम्— द्वितीयं सोरकाख्यं स्याच्छ्वेतवर्णं शिलाजतु । अंग्रिवाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५ ॥ उक्तं च— पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु । मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ १२६ ॥ १ रसपद्धत्यामेवं पठ्यते,—“वह्न्युत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हि- तम्”—इति; “वह्न्युत्तेजनमिति यदपरं श्वेतं शिलाजतु तद्वह्न्युत्तेजकं वह्निप्रदी- पकं; अत्र जठराग्निर्न ग्राह्यः, किंतु अग्निशस्त्राणि, तन्नाग्नेः प्रदीपकः, 'सोरा' इति लोके प्रसिद्धः, अग्निवाणेषु (अग्न्यस्त्रेषु ‘दारु-वारुद Gunpowder’ इति प्रसिद्धपदार्थनिर्माणार्थे ) प्रयुज्यते” इति रसपद्धतिटीकायां महादेवः ।
१२.] आयुर्वेदप्रकाशः । १६१ एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥ १२७ ॥ उत्पत्तिस्तु मृत्तिकाविशेषाज्जलविशेषाज्जायते ॥ इत्युपधातुनिरूपणम् ॥ अथ चपलाख्य उपधातुरधिकोऽस्ति । तद्यथा रसपद्धत्याम्— चत्वारश्चपला सितासितहरिच्छोणप्रभेदैः पुन- र्मोधौ शोणितशोणकज्जलनिभौ लाक्षावदाशुद्रवात् । शेषौ तु द्रवताश्चिरेण सुभगौ तौ शुध्यतः सप्तधा कर्कोट्यार्द्रकजम्भलस्य सलिले संस्वेदितौ वा प्लुतौ १२८ प्राथम्याद्रसबन्धिनौ तदुपरि स्यातां तु योगानुगौ वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकभूम्युद्भवौ । मोघौ निष्फलौ । शेषौ हरितसितौ । सुभगौ गुरुतरौ । प्राथ- म्यात्प्रथमतस्तु रसबन्धकौ भवतः । शेषं स्पष्टम् । अन्यत्रापि— चतुर्धा चपलः प्रोक्तः श्वेतः कृष्णोऽरुणो हरित् । वङ्गवत्प्लुवते वह्नौ चपलस्तेन कीर्तितः ॥ १२९ ॥ गुणाः— चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३० ॥ अयं तूपरसे कैश्चित्पठितोऽन्यै रसेषु च । विषोपविषधान्याम्लैर्मर्दितश्चपलस्ततः । अन्धमूषागतो ध्मातः सत्त्वं मुञ्चति कार्यकृत् ॥ १३१ ॥ इति चपलः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे द्वादशोऽध्यायः ॥ १२ ॥
१६२ आयुर्वेदauthor ग्रंथमाला । [ अध्यायः अथ त्रयोदशोऽध्यायः । अथ रत्नोपरत्नानामुत्पत्तिनामलक्षणगुणशोधनमारणानि । उक्तं च— मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः । देहस्य धारका नृणां जराव्याधिविनाशनः ॥ १ ॥ रत्ननिरुक्तिः— धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । [हस्तलिखित: मृच्छकटिक से] अतो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ २ ॥ अथ रत्ननामानि स्वरूपनिरूपणं च— रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति वज्रादि च तदुच्यते ॥ ३ ॥ रसपद्धत्याम्— वज्रं विद्रुममौक्तिके मरकतं वैडूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाम्ना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीम्नि स्फुटं नाम्ना तान्युपरत्नतान्युपगतान्याहुः परीक्षाकृतः ॥ ४ ॥ वज्रं हीरकः, विद्रुमं प्रवालं, मौक्तिकं मुक्ता, मरकतं गरुडोद्गारः 'पन्ना' इति भाषा, वैडूर्यं विदुरमणिः, गोमेदः अनेनैव नाम्ना प्रसिद्धः, माणिक्यं पद्मरागः, हरिनीलः इन्द्र- नीलः, पुष्पदृषत् पुष्परागः । शेषं स्पष्टम् ॥ विष्णुधर्मोत्तरेऽपि— मुक्ताफलं हीरकं च वैडूर्यं पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारुत्मतं तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ ५ ॥ इति ॥ उपरत्नान्यन्यत्र— वैक्रान्तः सूर्यकान्तश्च चन्द्रकान्तस्तथैव च । राजावर्तो लालसंज्ञः पेरोजाख्यस्तथाऽपरः ॥ ६ ॥
१३.] आयुर्वेदप्रकाशः । १६३ मुक्ताशुक्तिस्तथा शङ्खकर्पूराश्माऽथ काचजाः । नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥ वह्न्यादिस्तम्भका ये च ते सर्वे हि परीक्षकैः । उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥ अथ रत्नानां नामानि— हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥ ९ ॥ माणिक्यं पद्मरागः स्याच्छोणरक्तं च लोहितम् । पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः ॥ १० ॥ इन्द्रनीलं च नीलं च, गोमेदः पीतरक्तकम् । वैडूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् ॥ ११ ॥ मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः ॥ १२ ॥ शुक्तिः शङ्खो गजक्रोडः फणिर्मत्स्यश्च दर्दुरः । वेणुश्चाष्टौ समाख्याता सुज्ञैर्मौक्तिकयोनयः ॥ १३ ॥ अथ हीरकोत्पत्तिलक्षणानि । दधीच्यस्थ्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ । विकीर्णास्ते तु वज्राख्यां भजन्ते तच्चतुर्विधम् ॥ १४ ॥ श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् । पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५ ॥ विप्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः । क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥ १६ ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ॥ १७ ॥ स्त्रीपुंनपुंसकाश्चैते लक्षणीयाश्च लक्षणैः । सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः ॥ १८ ॥
१६४ आयुर्वेदग्रन्थमाला । [ अध्यायः पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः । रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥ त्रिकोणाश्च सुदीर्घाश्च विज्ञेयास्ते नपुंसकाः । सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २० ॥ स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः । नपुंसकास्त्ववीर्याः स्युरकामाः सत्त्ववर्जिताः ॥ २१ ॥ स्त्रियः स्त्रीभ्यः प्रदातव्या क्लीवान् क्लीवे प्रयोजयेत् । सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥ अथ रसपद्धत्यां हीरकोत्पत्तिरन्यथोक्ता । यथा— जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्यां पुन- दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः । दत्त्वाऽथ स्वशरीरमव्यथमयं धीरः सुराणां पुर- स्तस्थौ तैः स तु सप्ततन्तुभुजिभिः स्वर्गेश्वरायार्पितः २३ चिच्छेदाथ शिरोऽस्य वज्रशिरसो वज्रेण वज्री पुन- र्भूतो रत्नसमुच्चयो बल इति स्माहुः पुराणर्षयः । मूर्ध्न वा वदनादमुष्य पवयो ये जज्ञिरे ते द्विजा बाहुभ्यामुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः २४ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥ प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरयं देहयाचनावसर इति भावः । सप्ततन्तुभुजिभिर्यज्ञभुग्भिः । शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः— पूर्वं मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः । ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता- स्ते वज्राण्यभवञ्जनुर्ननु पवेरित्यूचिरे केचन ॥ २६ ॥ १ विकर्तनः सूर्यः, तत्करव्राताः किरणसमूहाः, तैः ।
१३.] आयुर्वेदप्रकाशः । १६५ स्पष्टम् । अत्र युगभेदेन व्यवस्था; अस्तु वा त्रिभ्य उत्पत्तिः, तथा सति किं बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट- प्रकारकं विज्ञानमाह— उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृपदां ज्ञानं वरं चाष्टधा । अत्रैकप्रसरेण नोक्तमपि तत्तत्परीक्षास्थल- श्लोकश्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः॥२७ मण्डली रत्नपरीक्षकाणां सभा । उत्पत्त्यादिकं भिन्नभिन्न- श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि- ति । एतेन समस्तश्लोकैर्व्यस्तश्लोकैरपि एकीभूतैरिव हीरकप- रीक्षा कर्तव्येति भावः । भूमिं प्रतिपाद्य पवेर्भेदानाह— ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः पुंस्त्रीक्लीवविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा । तत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो वैश्यः पीतरुगङ्घ्रिजस्त्वसितभास्तत्राप्ययं पूरुषः ॥२८॥ रेखाविन्दुविवर्जितोऽष्टफलकः स्वच्छच्छवियों भवे- त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः । निष्कोणाश्विपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वा पुन- र्धेयाः स्त्रीनृनपुंसकैर्युवतिपुंषण्डाभिधानाः क्रमात् २९ व्याख्या—यः स्फटिकवच्छ्वेतरुचिः स द्विजः, यः किंचि- द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार- णादिभिर्धर्मार्थौ भवत इत्याह— यद्वेदाध्ययनात्क्रतोरपि कृतेर्दानस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् । १ 'वदन्त्यष्टधा' ग. । २ 'अथैकप्रसरेण' ग. । ३ 'तज्ज्ञानं' ग. ।
१६६ आयुर्वेदियग्रन्थमाला। [अध्यायः चातुर्वर्ण्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा संयुक्तामुररीकरोतु न कथंकारं स भूतिं पराम् ॥३०॥ अथ शूद्रवर्णोऽपि पविर्द्विजवर्णात्पवेरधिक इत्याह— शूद्रादप्यधमो द्विजो यदि गुणैर्हीनः पविर्ब्राह्मणा- दप्युच्चैरयमर्घमर्हति पुनः शूद्रो गुणैर्गौरवात् । आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहा- स्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ३१ अथ पवेर्दोषांनुपदिशति— बिन्दुः काकपदं यवः किल मलो रेखेति नाम्नोदिता दोषाः पञ्च पवेरथात्र कथिता बिन्दुः समो बिन्दुना । कृष्णो रक्त इति क्रमेण स पुनर्द्वेधा मतो वर्तुला- वर्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्व
४. चतुर्थ-पञ्चम अध्याय: रत्न-उपरत्न भस्म, यन्त्र-मूषा निर्माण एवं ग्रन्थ उपसंहार
१३.] आयुर्वेदप्रकाशः । १६७ अथ तासां निन्दामाह— सव्या तत्र शुभा पराः पुनरमूर्दौर्भाग्यदा वर्तुले- ऽप्यन्तर्भेदिनि लग्नकोणिनि पवौ दोषास्त्वकिंचित्कराः । अत्रोक्तानां दोषाणामपवादमाह—वर्तुलेत्यादि । एवंभूते वज्रे अकिंचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु- दिशति— अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽ- प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ॥३५ उत्तमे पवौ अच्छत्वमादर्शादिवत्, लघुता तुपवत्, अष्ट- फलकता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च गुणाः । अथोपसंहारव्याजेन खनिं निरूपयति— जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः । कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारवज्राकरौ ३६ आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च; त्रेतायुगे वङ्गदेशः मालवश्च; द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक- पर्वतश्च; कलौ तु सोपारदेशः वज्राकरो वैरागरश्च 'वैरागड' इति भाषा । अथ मौल्यज्ञानार्थं मानपरिभाषामाह— चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल- स्ताभ्यामेव यवो, यवः¹ पुनरयं पिण्डोऽस्ति किंचित्पृथुः । पिण्डो गात्रमिति द्विधा पविवपुः संज्ञाऽस्य संज्ञाभिमां ज्ञात्वा मानमिदं² च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७ १ 'यवः पुनरिति पिण्डशब्दः स्थौल्यवाचकः, अयं वंशयववत्स्थूलः, अ- धिको वा किंचित्' इति रसपद्धतिटीकायां महादेवः । २ 'मानकदण्डतो वत महन्मध्याल्पमौल्यं वदेत्' इति रसपद्धत्यां पाठः ।
र्द्धितमस्य- that'sद्विद्वि. Here, look at द्दैorर्दर्घ: The first letter has a top horizontal, down, loop/curl... it's a द! Underneath or next to it: another द? Wait, look at दinप्रतिदेशमस्ति(line 2): standardद. Here, it's द्+दै->द्दै! Wait, but does it have two slants? Look at the top of the letter: there is one slant? No, look: There is a repha र्above? Wait, let's look at the transliteration of this standard verse in Rasashastra literature! Search memory for the verse:स्याच्चेत्साङ्घ्रियवोपमः पविरथो माने गुरुस्तण्डुलः क्षीयेतास्य मणेरथ द्विगुणितं मौल्यं क्षयेऽयं क्रमः । इत्थं युक्तिबलाद्विचार्य चतुरो मौल्यं मणेरादिशे- ......... वज्रवर्ष्मणि यथा दोषे क्षयं कल्पयेत् ॥४३॥`
What is that missing quarter?
Meter is Śārdūlavikrīḍita:
--~ ~~- - ~~- --~ --~ -
Let's scan line 23-24:
इत्
१३.] आयुर्वेदप्रकाशः । १६९ यावत्स्याद्गुणिनस्ततस्त्वगुणिनो वृद्धेश्चतस्रः कला- श्छेत्तव्याः कुशलेन देशसमयद्रव्यात्मविज्ञानिना ॥४४॥ अथ मौल्यप्रयोक्तुर्गुणानाह— कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्विदेशविधिविन्मौल्यप्रयोक्ता भवेत् । अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं कुष्ठी सोऽत्र भवेदमुत्र स पुनर्गच्छेन्महारौरवम् ॥४५॥ कर्मज्ञ इत्यादि । लघुपाणिर्येन गृहीत्वा दत्तं गुणाय भवति सः, अर्थविमुखः मध्येऽकापट्यं कृत्वा स्थितो यस्तादृशः, गुणी ऊहापोहविचारचतुरः, निःसंदिग्धमतिः अनेकरत्नग्रहणेन जातमतिः, विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः । एवं प्रयोक्ता रत्नमौल्यस्य भवेत् । अथैतादृक्चातुर्याभावे प्रयो- क्तुर्दोषमाह—अज्ञानादिति । अमुत्र परलोके, महारौरवं नर- कम् । अथ मुद्रादौ पविविन्यासप्रकारमाह— यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवे- र्विस्तीर्णं तु तलं ततः स शिरसा योज्योऽङ्गुलीयादिषु । व्याख्या—यदमुष्य हीरकस्य निम्नमङ्गं गभीरं सद्भिस्त- च्छिद्र उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुलीयादिषु मुद्रिकादिषु शिरसैव योज्यो न तलेन । परीक्षाप्रकारमाह— वामं वामविलोचनः करतलं विस्तार्य तस्मिन् पविं तर्जन्या परिचालयेदवहितः प्रायस्तलेन स्थितः ॥ ४६ ॥ अवहितः पण्डितः, वामं करतलं विस्तार्य, तस्मिन् पविं त- र्जन्या परिचालयेत् । कीदृशः ? वामविलोचनः वक्रदृष्टिः सन्नेव । प्रायस्तलेन नीचत्वेनावस्थितः । किं विचारणीयं तदाह— १५
१७० आयुर्वेदीयग्रन्थमाला । [ अध्यायः जातिर्दोषगुणौ खनिर्गिरिकथे रङ्गापरङ्गौ छवि- र्मौल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । बाह्याभ्यन्तरतः प्रविष्ट इव स स्याच्छास्त्रतो मण्डली तेषां संसदमाह चार्यविबुधः श्रीमण्डलीं मण्डली ॥४७॥ व्याख्या—कथा इतिहासः, रङ्गः शुक्लादिः, अपरङ्गो नीलादि, छविः कान्तिः, मौल्यं देशदेशीयं, इति दशप्रकारं पवेर्यः लक्षणं जानाति स मण्डलीं प्रविशेत् । क इव ? पवे- र्बाह्याभ्यन्तरतः प्रविष्ट इव । कस्माच्छास्त्रतः । मण्डलीसञ्ज्ञाया अर्थमाह—तेषामिति । तेषां मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः ॥ अथ मण्डलीप्रवेशानर्हान् वक्ति—(१ अथ च मौल्ये कश्चि- द्विशेषार्थमाह—) हीनाङ्गः प्रविशेन्न तां न पतितो नो वाऽन्त्यजो नावला भाण्डाद्यैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमविपर्य्यासेन यद्यत्तथा स्नेहालुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली ॥४८ स्पष्टम् । अथैकेन मौल्यविचारणा न कार्य्येत्याह— नैको मौल्यविचारणां विरचयेन्नैकः परीक्षेत वा भ्रान्तेः पूरुषधर्मतस्तु २कृतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विनुदेत्संदेहमन्ये पुन- र्लिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते ४९ व्याख्या—भ्रमप्रमादादीनां पुरुषधर्म्माणां सत्त्वात्संदेहे शाणक्षारविलेखनेन पविं विलिखेत् । अन्ये तु मणयः कुलि- शेन लिख्यन्ते । इति हीरकपरीक्षा ॥ १ अयं पाठः प्रक्षिप्त इति भाति । २ कृतके नाम कृत्रिमे मणौ ।
/ahi
8. śukti (शुक्ति)
If उरग is #7, then:
कम्बु + उरग = कम्बूरग!
Then what is after कम्बूरग?
Is it कम्बूरगपतिशुक्तयोऽत्र?
Wait, look at the letters in the image:
क
म्बू
रो - wait, why रो?
Look at: र with ो? No, wait!
Is that र?
Wait, could it be कम्बूरग?
Wait, the letter is रो? Or is it र and गे?
Wait! Look at रो: it has र and ो?
Wait, look at ग: it is ग!
What is before ग? A रो?
Wait, could it be कम्बूरोग...?
Why would someone print कम्बूरोग?
Wait! If the manuscript had कम्बूरग, and the typesetter read र with some mark as रो?
Or is it कम्बूरोगेति?
Wait, look at `कम्बूरोगति
१७२ आयुर्वेदीयग्रन्थमाला। [ अध्यायः अथ उरोगतिः सर्पः, तन्मौक्तिकलक्ष्माह— शेषस्यान्वयिनां फणासु फणिनां यन्मौक्तिकं जायते वृत्तं निर्मलमुज्ज्वलं शशिरुचि श्यामच्छवि श्रीकरम्। श्यामच्छवि श्यामाभासं, तत्फलमाह— कङ्कोलाकृति कोटिकोटिसुकृतैः प्राप्नोति चेन्मानवः सः स्याद्वाजिगजाधिपो नृपसमो जातोऽपि नीचे कुले॥ आस्ते सद्मनि चेत्स पन्नगमणिस्तं यातुधानामरा हर्तुं रन्ध्रमवेक्षते ईतरतः¹ कुर्यान्महाशान्तिकम्। अथ शुक्तिजमौक्तिकलक्ष्माह— वज्राघातविघट्टिताङ्गलमुखाद्भ्रष्टाः पुनर्यै द्विजाः क्षारोदन्वति यत्र यत्र पतितास्ते ते भवन्नाकराः॥५६॥ आदायः पृथुबर्बरो जलनिधौ स्यादा²रवाँटस्ततो नाम्ना सिंहलकोर्मिज
१३.] आयुर्वेदप्रकाशः । १७३ तस्या गर्भभवं तु कुङ्कुमनिभं सर्वासु जातिष्वपि श्रेष्ठं भूरिगुणं वदन्ति कृतिनः श्रेयस्करं तद्भवेत् । स्वच्छं ह्लादि लघूदकद्युतियुतं मुक्ताफलं किंचन स्थूलं स्निग्धमतीव निर्मलमिलाभूमौ प्रकाशं सदा ॥६०॥ आम्नायोदितमस्य मौल्यमवनौ तालद्वयीजन्मको राशिर्हेमकृतः कृतस्तदधमं वा मध्यमं जायते । दोषान् पञ्च लघून्, गुरुंश्च चतुरः, षट् चैव दोषेतरान् छायास्त्रित्वमिता गृणन्ति सुधियो मुक्तामणौ ते पुनः ॥ दीर्घं पार्श्वकृशं त्रिवृत्तमपि च त्र्यस्रं ततः कापिलं पञ्चैते खलु मौक्तिकेषु गदिता दोषास्तु साधारणाः । नाम्नैवोदितलक्षणाः पुनरमी विच्छिन्नरुद्योगितां- दौर्भाग्यप्रसुताविनाशलघुताकौलीनताकारिणः ॥६२॥ शुक्तिस्पर्शनमत्स्यनेत्रजठराकारातिरक्ताङ्कताः श्वित्रक्रोश(?)दरिद्रतामृ्तिकरा दोषा बृहन्तस्त्वमी । तेष्वन्त्यौ विशदौ खशुक्तिसदृशस्त्वाद्यो द्वितीयस्ततो मत्स्याक्षच्छविलाञ्छनः पुनरमी शस्ता न मुक्ताफले६३ दीप्तिर्गौरववृत्तताविमलतासुस्निग्धताकान्तताः स्युः षट् शुक्तिमणौ गुणा इति गुणैर्युक्तं पुनर्मौक्तिकम्। यः कण्ठे विभृयात्समस्तजनुषामह्नः समाप्तिं नये- च्छायास्तु त्रिविधा स्मृता मधुसिताश्रीखण्डखण्डश्रियः॥ वृत्तस्थूलगुरूरुकच्छुचि शुभं नीवीं तु तत्प्राप्नुया- त्सत्यं त्वत्र तुलामशन्ति कवयो जातिस्पृशं मौक्तिकम्। गुञ्जा द्वित्रियवाङ्गवेदिह पुनर्माषश्चतुर्भिश्च तैः शाणः शाणयुगात्कलञ्ज उदगान्निष्कस्तदेकादशात् ६५ इति मुक्तोत्पत्तिलक्षणानि ॥ १ 'विच्छिन्नरुग्योगिता' ग. । २ 'त्रासं' ग. ।
१७४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ रसरत्नसमुच्चयोक्तानि सर्वेषां लक्षणानि गुणाश्च लि- ख्यन्ते । वज्रस्य— वज्रं च षड्रसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदाढ्यं रसायनम् ॥ ६६ ॥ भस्साङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् । आधारं मलिनं बिन्दुसंत्रासि स्फुटितं तथा । नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥ ६७ ॥ यत्पाषाणतले निकाषनिकरे नोद्धृष्यते निष्ठुरै- र्यच्चान्योपललोहमुद्गरमुखैर्लेखं न यात्याहतम् । यच्चान्यान्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः स्थाप्यं महार्घं च तत् ६८ अष्टास्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते । पुंस्त्रीनपुंसकं वज्रं योज्यं पुंस्त्रीनपुंसके ॥ ६९ ॥ आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धरससद्गुणकार्त्स्न्यदायि मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ ७० ॥ अन्यत्रापि— वज्रं समीरकफपित्तगदान्निहन्त्या- द्वज्रोपमं च कुरुते वपुरुत्तमश्रि । शोषक्षयभ्रमभगन्दरमेहमेदो- पाण्डूदरश्वयथुहारि च षड्रसाढ्यम् ॥ ७१ ॥ अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा । पाण्डुं तापं गुरुत्वं च तस्मात्संशोध्य मारयेत् ॥ ७२ ॥
१३.] आयुर्वेदप्रकाशः । १७५ आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च । सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥ ७३ ॥ अथ वज्रशोधनम्— व्याघ्रीकन्दगतं वज्रं दोलायन्त्रेण पाचयेत् । सप्ताहं कोद्रवक्वाथे कुलिशं विमलं भवेत् ॥ ७४ ॥ अन्यत्र दिनान्यप्युक्तानि— कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति ॥ ७५ ॥ व्याघ्री कण्टकारिका । प्रकारान्तरम्— व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् । अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् । वज्रीक्षीरेण वा सिञ्चेत्कुलिशं विमलं भवेत् ॥ ७६ ॥ प्रकारान्तरम्— गृहीत्वा हि शुभे वज्रं व्याघ्रीकन्दे विनिक्षिपेत् । महिषीविष्ठया लिप्त्वा करीषाग्नौ विपाचयेत् ॥ ७७ ॥ त्रियामं वा चतुर्यामं यामिन्यन्तेऽश्वमूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुध्यति ॥ ७८ ॥ अथ वज्रमारणम्— त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् । त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ ७९ ॥ तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । एवं सप्तपुटैर्नूनं कुलिशं मृतिमाप्नुयात् ॥ ८० ॥ इति वज्रभस्म । अथान्यः प्रकारः— त्रिसप्तकृत्वः संतप्तं खरमूत्रेण सेचितम् । मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ ८१ ॥
१७६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै । भस्मीभवति तद्वज्रं शङ्खशीतांशुसुन्दरम् ॥ ८२ ॥ इति वज्रभस्म । अथान्यः प्रकारः— कांस्यपात्रस्थभेकस्य मूत्रे वज्रं समावपेत् । त्रिसप्तकृत्वः संतप्तं वज्रमेवं मृतं भवेत् ॥ ८३ ॥ इति वज्रभस्म । कांस्यपात्रस्थभेकस्येत्यस्य व्याख्या— कांस्यस्य उत्ताना कटोरिका, तत्रस्थो भेको मण्डूकः, अङ्गुल्या- दिना धर्षितः, पात्रस्य चिकणतया बहिर्गन्तुमशक्तो भीतः सन्मूत्रं सृजति । इति मूत्रग्रहणार्थमयं यत्न इति भावः ॥ अन्यः प्रकारः— मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठाम्लवेतसम् । शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम् ॥ ८४ ॥ कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि । इति वज्रभस्म । अथान्यः सुगमः प्रकारः— हिङ्गुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे । तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ ८५ ॥ इति वज्रभस्म । अथ विद्रुमलक्षणगुणाः । पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ ८६ ॥ आगाररञ्जनाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ८७ ॥ बालार्ककिरणारक्ता सागरसलिलोद्भवा लता याऽस्ति । न त्यजति निजरुचिं निकषे घृष्टाऽपि सा स्मृता जात्या८८ प्रवालं मधुरं साम्लं कफपित्तादिदोषनुत् । वीर्यकान्तिकरं स्त्रीणां धृते मङ्गलदायकम् ॥ ८९ ॥
१३.] आयुर्वेदप्रकाशः । १७७ क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगहृत् ॥ ९० ॥ अथ मौक्तिकम्— ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ ९१ ॥ नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि॥ यदिच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां¹ चाति धत्ते । मत्स्याक्षीकं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमताऽसौख्यदायि ॥ ९३ ॥ लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैर्यद्यविकृतं तत्तु मौक्तिकं जात्यम्॥९४॥ मौक्तिकं सुमधुरं सुशीतलं दृष्टिरोगशमनं विपापहम् । राजयक्ष्मपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ९५ ॥ कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ ९६ ॥ अथ माणिक्यं पद्मराग इति च । माणिक्यं मधुरं स्निग्धं वातपित्तविनाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ ९७ ॥ स्निग्धं सुगात्ररचितं दीप्तं स्वच्छं सुरङ्गं च । तज्जात्यं माणिक्यं कल्याणं धारणात्कुरुते ॥ ९८ ॥ यदिच्छायं शर्करिलं कर्कशधूम्रं स्वरागविकलं च । विरूपलघु माणिक्यं न धार्यं दोषावहं त्याज्यम् ॥९९॥ १ 'कृष्णतां' ग. ।
१७८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः कुशेशयदलाच्छायं स्वच्छं स्निग्धं महत्स्फुटम् । वृत्तायतं समं गात्रं माणिक्यं त्वष्टधा शुभम् ॥ १०० ॥ माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् । भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ॥ १०१ ॥ अथ गारुत्मतम् । मरकतं हि विषघ्नं शीतलं मधुरं रसे । अम्लपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ १०२ ॥ स्वच्छं च गुरु सुच्छायं स्निग्धं गात्रं च मार्दवम् । अव्यङ्गं बहुरङ्गं च शुभं मरकतं मतम् ॥ १०३ ॥ शर्करिलं रूक्षमलिनं लघु हीनकान्तिकल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥१०४ यच्छैवालशिखण्डिशाद्वलहरित्कां¹थैश्च काकच्छदैः खद्योतेन च बालकोरवपुषा शैरीषपुष्पेण च । छायाभिः सततं दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१०५॥ अथ वैडूर्यम् । वैडूर्यमुष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूमिजं च शुभावहम् ॥ १०६ ॥ एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद्गात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विदलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ विच्छायं मृच्छिलागर्भं लघु रूक्षं त्वसत्कृतम् । सत्रासं चिपिटं कृष्णं वैडूर्यं दूरतस्त्यजेत् ॥ १०८ ॥ १ 'हरित्काचैश्च' ग. । २ 'नितरां' ग. ।