आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 196, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १७७ क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगहृत् ॥ ९० ॥ अथ मौक्तिकम्— ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ ९१ ॥ नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि॥ यदिच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां¹ चाति धत्ते । मत्स्याक्षीकं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमताऽसौख्यदायि ॥ ९३ ॥ लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैर्यद्यविकृतं तत्तु मौक्तिकं जात्यम्॥९४॥ मौक्तिकं सुमधुरं सुशीतलं दृष्टिरोगशमनं विपापहम् । राजयक्ष्मपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ९५ ॥ कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ ९६ ॥ अथ माणिक्यं पद्मराग इति च । माणिक्यं मधुरं स्निग्धं वातपित्तविनाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ ९७ ॥ स्निग्धं सुगात्ररचितं दीप्तं स्वच्छं सुरङ्गं च । तज्जात्यं माणिक्यं कल्याणं धारणात्कुरुते ॥ ९८ ॥ यदिच्छायं शर्करिलं कर्कशधूम्रं स्वरागविकलं च । विरूपलघु माणिक्यं न धार्यं दोषावहं त्याज्यम् ॥९९॥ १ 'कृष्णतां' ग. ।