आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 195, कुल 232 में से
संदर्भ में पढ़ें१७६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै । भस्मीभवति तद्वज्रं शङ्खशीतांशुसुन्दरम् ॥ ८२ ॥ इति वज्रभस्म । अथान्यः प्रकारः— कांस्यपात्रस्थभेकस्य मूत्रे वज्रं समावपेत् । त्रिसप्तकृत्वः संतप्तं वज्रमेवं मृतं भवेत् ॥ ८३ ॥ इति वज्रभस्म । कांस्यपात्रस्थभेकस्येत्यस्य व्याख्या— कांस्यस्य उत्ताना कटोरिका, तत्रस्थो भेको मण्डूकः, अङ्गुल्या- दिना धर्षितः, पात्रस्य चिकणतया बहिर्गन्तुमशक्तो भीतः सन्मूत्रं सृजति । इति मूत्रग्रहणार्थमयं यत्न इति भावः ॥ अन्यः प्रकारः— मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठाम्लवेतसम् । शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम् ॥ ८४ ॥ कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि । इति वज्रभस्म । अथान्यः सुगमः प्रकारः— हिङ्गुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे । तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ ८५ ॥ इति वज्रभस्म । अथ विद्रुमलक्षणगुणाः । पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ ८६ ॥ आगाररञ्जनाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ८७ ॥ बालार्ककिरणारक्ता सागरसलिलोद्भवा लता याऽस्ति । न त्यजति निजरुचिं निकषे घृष्टाऽपि सा स्मृता जात्या८८ प्रवालं मधुरं साम्लं कफपित्तादिदोषनुत् । वीर्यकान्तिकरं स्त्रीणां धृते मङ्गलदायकम् ॥ ८९ ॥