भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 194, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 194

१३.] आयुर्वेदप्रकाशः । १७५ आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च । सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥ ७३ ॥ अथ वज्रशोधनम्— व्याघ्रीकन्दगतं वज्रं दोलायन्त्रेण पाचयेत् । सप्ताहं कोद्रवक्वाथे कुलिशं विमलं भवेत् ॥ ७४ ॥ अन्यत्र दिनान्यप्युक्तानि— कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति ॥ ७५ ॥ व्याघ्री कण्टकारिका । प्रकारान्तरम्— व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् । अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् । वज्रीक्षीरेण वा सिञ्चेत्कुलिशं विमलं भवेत् ॥ ७६ ॥ प्रकारान्तरम्— गृहीत्वा हि शुभे वज्रं व्याघ्रीकन्दे विनिक्षिपेत् । महिषीविष्ठया लिप्त्वा करीषाग्नौ विपाचयेत् ॥ ७७ ॥ त्रियामं वा चतुर्यामं यामिन्यन्तेऽश्वमूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुध्यति ॥ ७८ ॥ अथ वज्रमारणम्— त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् । त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ ७९ ॥ तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । एवं सप्तपुटैर्नूनं कुलिशं मृतिमाप्नुयात् ॥ ८० ॥ इति वज्रभस्म । अथान्यः प्रकारः— त्रिसप्तकृत्वः संतप्तं खरमूत्रेण सेचितम् । मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ ८१ ॥

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक) · पृष्ठ 194, कुल 232 में से · BharatKosha