भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 193, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 193

१७४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ रसरत्नसमुच्चयोक्तानि सर्वेषां लक्षणानि गुणाश्च लि- ख्यन्ते । वज्रस्य— वज्रं च षड्रसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदाढ्यं रसायनम् ॥ ६६ ॥ भस्साङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् । आधारं मलिनं बिन्दुसंत्रासि स्फुटितं तथा । नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥ ६७ ॥ यत्पाषाणतले निकाषनिकरे नोद्धृष्यते निष्ठुरै- र्यच्चान्योपललोहमुद्गरमुखैर्लेखं न यात्याहतम् । यच्चान्यान्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः स्थाप्यं महार्घं च तत् ६८ अष्टास्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते । पुंस्त्रीनपुंसकं वज्रं योज्यं पुंस्त्रीनपुंसके ॥ ६९ ॥ आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धरससद्गुणकार्त्स्न्यदायि मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ ७० ॥ अन्यत्रापि— वज्रं समीरकफपित्तगदान्निहन्त्या- द्वज्रोपमं च कुरुते वपुरुत्तमश्रि । शोषक्षयभ्रमभगन्दरमेहमेदो- पाण्डूदरश्वयथुहारि च षड्रसाढ्यम् ॥ ७१ ॥ अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा । पाण्डुं तापं गुरुत्वं च तस्मात्संशोध्य मारयेत् ॥ ७२ ॥