आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 183, कुल 232 में से
संदर्भ में पढ़ें१६४ आयुर्वेदग्रन्थमाला । [ अध्यायः पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः । रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥ त्रिकोणाश्च सुदीर्घाश्च विज्ञेयास्ते नपुंसकाः । सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २० ॥ स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः । नपुंसकास्त्ववीर्याः स्युरकामाः सत्त्ववर्जिताः ॥ २१ ॥ स्त्रियः स्त्रीभ्यः प्रदातव्या क्लीवान् क्लीवे प्रयोजयेत् । सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥ अथ रसपद्धत्यां हीरकोत्पत्तिरन्यथोक्ता । यथा— जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्यां पुन- दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः । दत्त्वाऽथ स्वशरीरमव्यथमयं धीरः सुराणां पुर- स्तस्थौ तैः स तु सप्ततन्तुभुजिभिः स्वर्गेश्वरायार्पितः २३ चिच्छेदाथ शिरोऽस्य वज्रशिरसो वज्रेण वज्री पुन- र्भूतो रत्नसमुच्चयो बल इति स्माहुः पुराणर्षयः । मूर्ध्न वा वदनादमुष्य पवयो ये जज्ञिरे ते द्विजा बाहुभ्यामुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः २४ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥ प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरयं देहयाचनावसर इति भावः । सप्ततन्तुभुजिभिर्यज्ञभुग्भिः । शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः— पूर्वं मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः । ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता- स्ते वज्राण्यभवञ्जनुर्ननु पवेरित्यूचिरे केचन ॥ २६ ॥ १ विकर्तनः सूर्यः, तत्करव्राताः किरणसमूहाः, तैः ।