आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 182, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १६३ मुक्ताशुक्तिस्तथा शङ्खकर्पूराश्माऽथ काचजाः । नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥ वह्न्यादिस्तम्भका ये च ते सर्वे हि परीक्षकैः । उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥ अथ रत्नानां नामानि— हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥ ९ ॥ माणिक्यं पद्मरागः स्याच्छोणरक्तं च लोहितम् । पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः ॥ १० ॥ इन्द्रनीलं च नीलं च, गोमेदः पीतरक्तकम् । वैडूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् ॥ ११ ॥ मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः ॥ १२ ॥ शुक्तिः शङ्खो गजक्रोडः फणिर्मत्स्यश्च दर्दुरः । वेणुश्चाष्टौ समाख्याता सुज्ञैर्मौक्तिकयोनयः ॥ १३ ॥ अथ हीरकोत्पत्तिलक्षणानि । दधीच्यस्थ्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ । विकीर्णास्ते तु वज्राख्यां भजन्ते तच्चतुर्विधम् ॥ १४ ॥ श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् । पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५ ॥ विप्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः । क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥ १६ ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ॥ १७ ॥ स्त्रीपुंनपुंसकाश्चैते लक्षणीयाश्च लक्षणैः । सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः ॥ १८ ॥