भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 184, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 184

१३.] आयुर्वेदप्रकाशः । १६५ स्पष्टम् । अत्र युगभेदेन व्यवस्था; अस्तु वा त्रिभ्य उत्पत्तिः, तथा सति किं बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट- प्रकारकं विज्ञानमाह— उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृपदां ज्ञानं वरं चाष्टधा । अत्रैकप्रसरेण नोक्तमपि तत्तत्परीक्षास्थल- श्लोकश्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः॥२७ मण्डली रत्नपरीक्षकाणां सभा । उत्पत्त्यादिकं भिन्नभिन्न- श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि- ति । एतेन समस्तश्लोकैर्व्यस्तश्लोकैरपि एकीभूतैरिव हीरकप- रीक्षा कर्तव्येति भावः । भूमिं प्रतिपाद्य पवेर्भेदानाह— ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः पुंस्त्रीक्लीवविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा । तत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो वैश्यः पीतरुगङ्घ्रिजस्त्वसितभास्तत्राप्ययं पूरुषः ॥२८॥ रेखाविन्दुविवर्जितोऽष्टफलकः स्वच्छच्छवियों भवे- त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः । निष्कोणाश्विपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वा पुन- र्धेयाः स्त्रीनृनपुंसकैर्युवतिपुंषण्डाभिधानाः क्रमात् २९ व्याख्या—यः स्फटिकवच्छ्वेतरुचिः स द्विजः, यः किंचि- द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार- णादिभिर्धर्मार्थौ भवत इत्याह— यद्वेदाध्ययनात्क्रतोरपि कृतेर्दानस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् । १ 'वदन्त्यष्टधा' ग. । २ 'अथैकप्रसरेण' ग. । ३ 'तज्ज्ञानं' ग. ।