आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 188, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १६९ यावत्स्याद्गुणिनस्ततस्त्वगुणिनो वृद्धेश्चतस्रः कला- श्छेत्तव्याः कुशलेन देशसमयद्रव्यात्मविज्ञानिना ॥४४॥ अथ मौल्यप्रयोक्तुर्गुणानाह— कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्विदेशविधिविन्मौल्यप्रयोक्ता भवेत् । अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं कुष्ठी सोऽत्र भवेदमुत्र स पुनर्गच्छेन्महारौरवम् ॥४५॥ कर्मज्ञ इत्यादि । लघुपाणिर्येन गृहीत्वा दत्तं गुणाय भवति सः, अर्थविमुखः मध्येऽकापट्यं कृत्वा स्थितो यस्तादृशः, गुणी ऊहापोहविचारचतुरः, निःसंदिग्धमतिः अनेकरत्नग्रहणेन जातमतिः, विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः । एवं प्रयोक्ता रत्नमौल्यस्य भवेत् । अथैतादृक्चातुर्याभावे प्रयो- क्तुर्दोषमाह—अज्ञानादिति । अमुत्र परलोके, महारौरवं नर- कम् । अथ मुद्रादौ पविविन्यासप्रकारमाह— यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवे- र्विस्तीर्णं तु तलं ततः स शिरसा योज्योऽङ्गुलीयादिषु । व्याख्या—यदमुष्य हीरकस्य निम्नमङ्गं गभीरं सद्भिस्त- च्छिद्र उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुलीयादिषु मुद्रिकादिषु शिरसैव योज्यो न तलेन । परीक्षाप्रकारमाह— वामं वामविलोचनः करतलं विस्तार्य तस्मिन् पविं तर्जन्या परिचालयेदवहितः प्रायस्तलेन स्थितः ॥ ४६ ॥ अवहितः पण्डितः, वामं करतलं विस्तार्य, तस्मिन् पविं त- र्जन्या परिचालयेत् । कीदृशः ? वामविलोचनः वक्रदृष्टिः सन्नेव । प्रायस्तलेन नीचत्वेनावस्थितः । किं विचारणीयं तदाह— १५