आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 189, कुल 232 में से
संदर्भ में पढ़ें१७० आयुर्वेदीयग्रन्थमाला । [ अध्यायः जातिर्दोषगुणौ खनिर्गिरिकथे रङ्गापरङ्गौ छवि- र्मौल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । बाह्याभ्यन्तरतः प्रविष्ट इव स स्याच्छास्त्रतो मण्डली तेषां संसदमाह चार्यविबुधः श्रीमण्डलीं मण्डली ॥४७॥ व्याख्या—कथा इतिहासः, रङ्गः शुक्लादिः, अपरङ्गो नीलादि, छविः कान्तिः, मौल्यं देशदेशीयं, इति दशप्रकारं पवेर्यः लक्षणं जानाति स मण्डलीं प्रविशेत् । क इव ? पवे- र्बाह्याभ्यन्तरतः प्रविष्ट इव । कस्माच्छास्त्रतः । मण्डलीसञ्ज्ञाया अर्थमाह—तेषामिति । तेषां मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः ॥ अथ मण्डलीप्रवेशानर्हान् वक्ति—(१ अथ च मौल्ये कश्चि- द्विशेषार्थमाह—) हीनाङ्गः प्रविशेन्न तां न पतितो नो वाऽन्त्यजो नावला भाण्डाद्यैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमविपर्य्यासेन यद्यत्तथा स्नेहालुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली ॥४८ स्पष्टम् । अथैकेन मौल्यविचारणा न कार्य्येत्याह— नैको मौल्यविचारणां विरचयेन्नैकः परीक्षेत वा भ्रान्तेः पूरुषधर्मतस्तु २कृतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विनुदेत्संदेहमन्ये पुन- र्लिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते ४९ व्याख्या—भ्रमप्रमादादीनां पुरुषधर्म्माणां सत्त्वात्संदेहे शाणक्षारविलेखनेन पविं विलिखेत् । अन्ये तु मणयः कुलि- शेन लिख्यन्ते । इति हीरकपरीक्षा ॥ १ अयं पाठः प्रक्षिप्त इति भाति । २ कृतके नाम कृत्रिमे मणौ ।