आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 205, कुल 232 में से
संदर्भ में पढ़ेंऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां न्यसेदित्यर्थः । अथाशक्तस्य ग्रहप्रातिकूल्ये धारणदाने आह— माणिक्यं द्युमणेर्बुधस्य गरुडोद्गारो गुरोः पुष्पकं गोमेदं तमसः प्रवालमवनीसूनोर्विधौर्मौक्तिकम् । नीलं मन्दगतेः कवेस्तु कुलिशं केतोर्विडालाक्षकं रत्नं रत्नविदो वदन्ति विहितं दानेऽथवा धारणे ॥ १७४ द्युमणेः सूर्यस्य, तमसः राहोः, अवनीसूनोर्मङ्गलस्य, मन्द- गतेः शनैश्चरस्य, कवेः शुक्रस्य, विडालाक्षकं विदूरमणिः, एषां प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ मुक्ताफलानां द्रुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह— मुक्ताफलानि सप्ताहं वेतसाऽम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥ पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ १७६ ॥ इति मुक्तादिरत्नद्रुतयः । अथ सौराष्ट्रीसत्त्वम्— सिताऽसिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् । शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् । धमनान्मुञ्चते सत्त्वं क्रामकं¹ कोष्ठयन्त्रके ॥ १७७ ॥ अथ सस्यकसत्त्वम्— सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः । स्त्रीमूत्रे वाऽथ यामैकं तत्पादांशां निशां क्षिपेत् ॥ १७८ ॥ मर्द्य करञ्जतैलेन यामैकं गोलकं च तत् । अन्धमूषागतं ध्मातं घटिकार्धं दृढाग्निना । इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ १७९ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे त्रयोदशोऽध्यायः ॥ १३ ॥ १ ‘क्रामके’ ग. ।