भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 206, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 206

१४.] आयुर्वेदप्रकाशः । १८७ अथ चतुर्दशोऽध्यायः । अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्यायं व्याख्यास्यामः। अथ विषोत्पत्तिः— शृणु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् । भेदांस्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥ देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः । पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥ एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः । मन्थानं मन्दरं कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥ क्षीराब्धिमन्थनं तत्र प्रारब्धं सुरसुन्दरि । सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥ अतीव मन्थनाद्देवि मन्दराघातवेगतः । अहिराजश्रमादेव विषज्वाला विनिर्गता ॥ ५ ॥ ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे । (तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् । प्रलयानलसंकाशं क्रुद्धः काल इवोत्कटम् ॥) तां दृष्ट्वा विबुधाः सर्वे दानवाश्च महावलाः ॥ ६ ॥ विषण्णवदनाः सद्यः प्राप्ताश्चैव मदन्तिकम् । ततस्तैः प्रार्थ्यमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥ ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् । पत्ररूपेण कुत्रापि मृत्तिकारूपतः क्वचित् ॥ ८ ॥ कन्दरूपेण कुत्रापि तेषां लक्षणमुच्यते । विषं तु गरलं क्ष्वेडं कालकूटं च नामतः । अष्टादशविधं ज्ञेयं विषं कन्दभवं बुधैः ॥ ९ ॥ तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् । दशोग्रभेदाः संस्पर्शादाघ्राणादपि मारकाः ॥ १० ॥