आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 207, कुल 232 में से
संदर्भ में पढ़ें१८८ आयुर्वेदीयग्रन्थमाला । [अध्यायः यथा— सक्तुको मुस्तकः कौर्मो दार्वीकः सार्पपस्तथा । सैकतो वत्सनाभश्च श्वेतशृङ्गी तथैव च ॥ ११ ॥ एतानि भेषज्यकृते विषाण्यष्टौ समाहरेत् । जराव्याधिहराणि स्युर्विधिना शीलितानि हि ॥ १२ ॥ लक्षणानि— चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् । सक्तुकं तं विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥ ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति । कूर्माकृति भवेत्कौर्मं दार्वीकं हि फणाकृति ॥ १४ ॥ ज्वरहत्सार्पपं रोमि सर्षपाभकणान्वितम् । स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्विरोमकः ॥ १५ ॥ ज्वरादिसर्वरोगघ्नः कन्दः सैकत उच्यते । यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ॥ १६ ॥ न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः । आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥ १७ ॥ प्रयोज्यो रोगहरणे जारणायां रसायने । गोशृङ्गवद्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥ १८ ॥ एतानि सक्तुकादीनि वातरक्ते त्रिदोषके । मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥ वातरक्ते वातप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे वा इति तत्त्वार्थः । अथ वर्ज्यानि— कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा । हालाहलश्च कर्कोटो ग्रन्थिर्हारिद्रकस्तथा ॥ २० ॥ १ 'दीर्घरोगं' ग. । २ 'सर्षपाभकणाकृति' ग. ।