आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 21, कुल 232 में से
संदर्भ में पढ़ें२ आयुर्वेदिकग्रन्थमाला । [अध्यायः यद्यन्मयाऽक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे । अध्यापयन्ति य इदं न तु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ ८ ॥ संस्काराः शिवजनुषो बहुप्रकारा- स्तुल्या ये लघुबहुप्रयाससाध्याः । यद्येकं सुकरमुदाहरामि तेषां व्याहारैः किमिह फलं ततः परेषाम् ॥ ९ ॥ कर्म यद्यदसाध्यं स्याद्दुर्लभं यद्यदौषधम् । तत्तत्सर्वं परित्यज्य सारभूतं प्रकाशितम्¹ ॥ १० ॥ क्वचिच्छास्त्रे क्रिया नास्ति कर्मसंख्या² न च क्वचित् । रसयुक्तिः क्वचिन्नास्ति संप्रदायः क्वचिन्न च ॥ ११ ॥ अतः³ सिद्धिर्न सर्वत्र रसे वापि रसायने । वैद्यवादे प्रयोगे च तस्माद्यत्नो मया कृतः ॥ १२ ॥ यद्यद्गुरुमुखोद्गीतं⁴ स्वानुभूतं च यन्मया । तत्तल्लोकहितार्थाय वक्ष्याम्यनैतिविस्तरम्⁵ ॥ १३ ॥ यदन्यत्र तदत्रास्ति यदत्रास्ति न कुत्रचित्⁶ । मुक्त्वैकं रसवैद्यं तु लाभं पूजां च कीर्तनम् । तृणकाष्ठौषधैर्वैद्यः को लभेत वराटिकाम् ॥ १४ ॥ यावत्सूतॊ न शुद्धो नच मृत अथवा मूर्च्छितो गन्धबद्धो नो वज्रं मारितं स्यान्न च गगनवधो नोपसूताश्च शुद्धाः । स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपाको न जात- स्तावद्वैद्यः क सिद्धो भवति वसुभुजां मण्डले श्लाघनीयः ॥ १ 'समुद्धृतम्' क. । २ 'क्रमसंख्या' क. । ३ 'तेन सिद्धिर्न तत्रास्ति' क. । ४ 'मुखात् ज्ञातं' क. । ५ 'प्रकटीक्रियतेऽधुना' क. । ६ 'तत् क्वचित्' क. ।