आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 214, कुल 232 में से
संदर्भ में पढ़ें१४. ] आयुर्वेदप्रकाशः । १९५ फेनं वमेत्पञ्चमे तु षष्ठे वैकल्यमेव च । जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७९ ॥ विषवेगानिति ज्ञात्वा मन्त्रद्रव्यैर्विनाशयेत् । यावन्नष्टमवेगं तु संप्राप्नोति हि मानवः ॥ ८० ॥ अतिमात्रं यदा भुक्तं वमनं तस्य कारयेत् । अजादुग्धं ददेत्तावद्यावद्वान्तिर्न जायते ॥ ८१ ॥ अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः । विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ ८२ ॥ तदा जीर्णमिति क्वचित्पाठः ॥ विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्पाक्षी टङ्कणं वाऽपि घृतेन विषहृत्परम् ॥ ८३ ॥ चत्वारो योगाः— पुत्रजीवकमज्जा वा पीता निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ८४ ॥ गोधृतपीता हरति विषं गरलं च वन्ध्यकर्कोटी । सकलविषोपशमनी त्रिमूली सुरभिजिह्वा च ॥ ८५ ॥ अतिमात्रं यदा भुक्तं तदाऽऽज्यं टङ्कणं पिबेत् । विषं सवेगं तेनाशु नाशमाप्नोति निश्चितम् ॥ ८६ ॥ वाग्भटः— आदौ वान्तविरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारकनिष्पाववाष्पिकाशतपर्विका- ॥ ८७ ॥ तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम् । नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥ ८८ ॥ विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ८९ ॥