भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 213, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 213

१९४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ विषमात्राकथनम्— यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगहरं नॄणां जायते शोधितं विषम् ॥ ६८ ॥ मतान्तरम्— प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ ६९ ॥ षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७० ॥ क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७१ ॥ वृद्ध्या हान्या प्रदातव्यं चतुर्थे सप्तके तथा । एवं सात्म्ये समायाते परां मात्रां भिषग्वरः ॥ ७२ ॥ स्थिरीकुर्याद्यथेच्छं तु ततस्त्यागं तु कारयेत् । सेवनक्रमहान्याऽयं विषकल्प इतीरितः ॥ ७३ ॥ यवमात्रं ग्रसेत्स्वच्छो गुञ्जामात्रं तु कुष्ठवान् । एवं यवाष्टपर्यन्तं परा मात्राऽधिका नहि ॥ ७४ ॥ अथ विषे पथ्यानि— घृतं क्षीरं सितां क्षौद्रं गोधूमांस्तण्डुलान्यवान् । मरिचं सैन्धवं द्राक्षां मधुरं पानकं हिमम् ॥ ७५ ॥ ब्रह्मचर्यं हिमं देशं हिमं कालं हिमं जलम् । विषस्य सेवको मर्त्यो भजेदतिविचक्षणः ॥ ७६ ॥ अथ विषपरीक्षा— मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् । अष्टौ वेगास्तदा तेन जायन्ते तस्य देहिनः ॥ ७७ ॥ प्रशमः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ ७८ ॥