आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 212, कुल 232 में से
संदर्भ में पढ़ें१४.] आयुर्वेदप्रकाशः । १९३ समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते । योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥ अन्यमतम्— तुल्येन टङ्कणेनैव द्विगुणेनोपणेन च । विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥ ५८ ॥ इति विषकल्पार्थं विषमारणम् । अथ विषसेवा— नानारसौषधैर्यै तु दुष्टा यान्तीह नो गदाः । ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ५९ ॥ शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । हेमन्तशिशिरर्तौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥ चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि । अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥ विषं तस्मै न दातव्यं दत्तं चेद्रोगकारकम् । दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२ ॥ क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे । ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् । पथ्यैः स्वस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ ६३ ॥ अथ विषानधिकारिणः— न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि । क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४ ॥ गर्भिण्यां बालवृद्धेषु न विषं राजमन्दिरे । न दातव्यं न भोक्तव्यं विषं वादे कदाचन ॥ ६५ ॥ आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् । विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥ सर्वरोगोपशमनं दृष्टिपुष्टिकरं विषम् । विधिना मात्रया काले भवेत्पथ्याशिनां नृणाम् ॥ ६७ ॥ १७