भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 211, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 211

१९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः शोषयेन्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः । प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ४८ ॥ इयं शुद्धिः ग्रीष्मर्त्वादावुचिता, तत्र तीव्रातपसद्भावात् ॥ रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् । विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ४९ ॥ अथ तीव्रातपाभावे प्रकारान्तरेण शोधनं— विषभागांश्चणकवत्स्थूलान् कृत्वा तु स्वेदयेत् । गोदुग्धे घटिकाः पञ्च शुद्धिमायाति तद्विषम् ॥ ५० ॥ न प्रोक्तं शोधनं यस्य विषस्योपविषस्य वा । गोदुग्धे स्वेदनं तस्य कर्तव्यं शुद्धिकारकम् ॥ ५१ ॥ योगतरङ्गिण्याम्— विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत् । गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ ५२ ॥ गोमूत्रं तु प्रदातव्यं प्रत्यहं नूतनं बुधैः । त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् । शुध्यत्येवं विषं सेवायोग्यं भवति रोगजित् ॥ ५३ ॥ अथान्यः प्रकारः— खण्डीकृत्य विषं वस्त्रपरिवद्धं तु दोलया । अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ ५४ ॥ क्षीराभावे ह्यजायास्तु गव्यक्षीरेण शोधयेत् । जायते दोषनिर्मुक्तं विषं योगेषु योजयेत् ॥ ५५ ॥ अथान्यः प्रकारः— विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ ५६ ॥ इति विषशुद्धिः ॥