भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 210, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 210

१४.] आयुर्वेदप्रकाशः । १९१ ब्राह्मणं दीयते रोगे क्षत्रियं विषभक्षणे । वैश्यं व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥ ४० ॥ अथ विषगुणाः— विषं रसायनं वल्यं वातश्लेष्मविकारनुत् । कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ ४१ ॥ व्यवायि शीतनुद्ग्राहि कुष्ठवातास्रनाशनम् । अग्निमान्द्यं श्वासकासं प्लीहोदरभगन्दरान् । गुल्मपाण्डुव्रणांशांसि नाशयेद्विधिसेवितम् ॥ ४२ ॥ अन्यत्रापि— विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । आग्नेयं वातकफहृद्योगवाहि मदावहम् ॥ ४३ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । पथ्याशिनां त्रिदोषघ्नं बृंहणं वीर्यवर्धनम् ॥ ४४ ॥ व्यवायि सकलकायं व्याप्य पाकगमनशीलं, विकाशि ओजःशोषणपूर्वकसंधिबन्धाशिथिलीकरणशीलं, आग्नेयं अ- धिकाग्न्यंशं, योगवाहि सङ्गिगुणग्राहकं, मदावहं तमोगुणा- धिक्येन बुद्धिविध्वंसकम् । अथ विषशोधनम्— ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधिते । तस्माद्विषं प्रयोगेषु शोधितं योजयेद्भिषक् ॥ ४५ ॥ यथा— उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु । अव्यावृतं विषहरैर्वातादिभिरशोषितम् ॥ ४६ ॥ विषहरैर्मयूरमण्यादिभिः ॥ विषभागांश्चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ ४७ ॥