आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 216, कुल 232 में से
संदर्भ में पढ़ें१४.] आयुर्वेदप्रकाशः । १९७ मन्त्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् । सप्तवाराभिजप्तं तु पाययेद्गतचेतनम् ॥ ९६ ॥ सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् । त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥ मुखमध्ये तदा सेकाः कर्तव्यास्तज्जलस्य हि । अथवा मस्तके तस्य तर्जन्या ताडयेद्बुधः । त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥ ९८ ॥ अथ वृश्चिकविषहरणमन्त्रः— ॐ कालो विंछु कर्तरीयालो सोनानी चाँच रूपानो पन्नोरो विंछु उतरे तो उतारु न तो गरुडमो हंकारुं आवेगो मोर खावेगो तोड विंछू विनरे तो हाक हलोला करे मेरी भक्ति गुरुकी शक्ति फुरो मन्त्र ईश्वरोवाच ॥ मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया । मार्जयन्मन्त्रमुच्चार्य सप्तकृत्वा त्रिवारकम् ॥ ९९ ॥ सद्यो निर्विषतां कुर्यान्नरं वृश्चिकदंशितम् । बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥ अथापरो वृश्चिकविषहरो मन्त्रः—ॐ नमो पुनपुरो ॥ मार्जयन्मुखवातेन मन्त्रेणानेन मन्त्रवित् । तिस्रो रेखाः प्रकुर्यात्तु सरला भुवि चात्मनः ॥ १०१ ॥ सन्मुखास्तासु मन्त्रेण रेखैकां तिर्यगायताम् । प्रकुर्वन्निर्विषीकुर्यान्मन्त्रावृत्त्या मुहुर्मुहुः ॥ १०२ ॥ मुहुर्मुहुरिति २१ वारं; अनुभूतं मन्त्रद्वयमपि । अथोप- विषाणि— अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥