भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 217, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 217

१९८ आयुर्वेदीयग्रन्थमाला । [अध्यायः एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते । मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ॥ १०४ ॥ अर्कसेहुण्डयोर्दुग्धमितराणां जटा भवेत् । रसः प्रयोज्यो योगेषु यद्वा पञ्चाङ्गजो रसः ॥ १०५ ॥ मतान्तरम् — अर्कस्नुग्लाङ्गलीगुञ्जाहयारिविषमुष्टयः । आफेनोन्मत्तजेपाला नवोपविषजातयः ॥ १०६ ॥ भङ्गा तु अनिश्चितैव, मांसगणे अजावीवत् । अथोपविषशुद्धिः— लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । इति लाङ्गलीशुद्धिः । गुञ्जा काञ्जिकसंस्विन्ना प्रहरं शुद्धिम्ऋच्छति । इति गुञ्जाशुद्धिः । किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ॥ १०७ ॥ इति विषमुष्टिशुद्धिः । जेपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासादितम् । लिप्तं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥ इति जेपालशुद्धिः । धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः । कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥ इति धत्तूरबीजशुद्धिः । अहिफेनं शृङ्गवेररसैर्भाव्यं त्रिसप्तधा । शुद्ध्यत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ ११० ॥ इत्यहिफेनशुद्धिः । १ यदाह चरकः,—“योनावजाविके मिश्रगोचरत्वादनिश्चिते”—इति ।