आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 218, कुल 232 में से
संदर्भ में पढ़ें१४.] आयुर्वेदप्रकाशः । १९९ बब्बूलत्वक्कषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥ इति भङ्गाशुद्धिः । अथ विषतैलम्— गृह्णीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् । तैलं तेन रसो मर्द्यः श्रुत्कारी स महान्भवेत् ॥ ११२ ॥ एवं धत्तूरबीजादेस्तैलं ग्राह्यं विधानतः । योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥ अथ विषवज्रपातः— रङ्गं विषं टङ्कणमूर्षणं च तुत्थं समांशं कुरु देवदाल्याः । रसेन पिष्टो विषवज्रपातो रसो भवेत्सर्वविषैकहन्ता ॥ ११४॥ निष्कोऽस्य संजीवयति प्रयुक्तो नृमूत्रयोगेन च सर्वथैव । जटाविषेणाकुलितं तथाऽन्यैर्दुष्टैर्विषैर्घूर्णितमातुरं च ॥ ११५ ॥ रङ्गं वङ्गभस्म । इति विषवज्रपातो रसः । अथ लवणभेदी सुधानिधिः— पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुना चैकशः सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्निं हठा- च्छुभ्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः॥११६॥ तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं च यै- रूर्ध्वं रेचयति त्रियाममसकृत्पेयं जलं शीतलम् । एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥ पांशुपटु खारीलवणम् । वज्र्यम्बुना वज्रीदुग्धेन, चैकशः सूतं च पिष्टम् । मृगेन्द्रकुटिलोद्भूतं सिंहश्मश्रुभक्षणजनि-