आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 24, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ५ अथोनविंशतिकर्माणि। यथा—स्वेदनमर्द्दनमूर्च्छनोत्थापनपातनबोधननियमनसंदी- पनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुति-वाह्यद्रुति-योग- जारणरञ्जनसारणक्रामणवेधनभक्षणाख्या ऊनविंशतिसंस्काराः सूतसिद्धिदा भवन्ति; दीपमान्ता अष्टौ संस्कारा वा देहसि- द्विदा भवन्ति ॥ अथ तेषु स्वेदनविधिः ।— नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः । मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३७ ॥ तन्मध्ये घनवाङ्गुण्डीविष्णुक्रान्तापुनर्नवाः । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३८ ॥ त्रिफला गिरिकर्णी च हंसपदी च चित्रकः । संमूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ ३९ ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् । अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ॥ ४० ॥ घनो मुस्ता, वाङ् ब्राह्मी, केचित् 'तन्मध्ये भङ्गुरामुण्डी' इति पठन्ति, मुण्डी प्रसिद्धा, विष्णुक्रान्ता श्वेतपुष्पा अपरा- जिता, पुनर्नवा गन्धपूर्णेति भाषा, मत्स्याक्षी मीनाक्षी 'मछेछी' इति भाषा, (हुँनगुंदा इत्यपि,) सर्पाक्षी सर्पनेत्रोपमा 'चुर्ची' इति भाषा, सहदेवी प्रसिद्धा, शतावरी शतावरीति भाषा, त्रिफला प्रसिद्धा, गिरिकर्णी नीलपुष्पा अपराजितैव, हंसपदी हंसचरणा, चित्रकः प्रसिद्धः । समूलकाण्डं मूल- शाखं... ...शिखिलवणासुरिसंयुतैः । नष्टपिष्टं रस कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥