आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 30, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ११ अत्रावसरे केचित्पुनः स्वेदनमिच्छन्ति; यथा— रसं चतुर्गुणे वस्त्रे सरसोनशरावके । नियम्य दोलिकायन्त्रे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥ सव्योषत्रिफलावह्निकन्याकल्के तुषाम्बुनि । दोषशेषापनुत्त्यर्थमिदं स्वेदनमिष्यते ॥ ८५ ॥ अथ बोधनम् । एवं कदर्थितः सूतः षण्ढत्वमधिगच्छति । तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ ८६ ॥ वाग्भटोऽपि— मर्दनैर्मूच्छनैः पातैर्मरणान्तो भवेद्रसः । शक्त्युत्कर्षाय बोध्योऽसौ गुरुदर्शितवर्त्मना ॥ ८७ ॥ यथा— विश्वामित्रकपाले वा काचकूप्यामथापि वा । सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ ८८ ॥ पूरयेत्रिदिनं भूम्यां राजहस्तप्रमाणतः । अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ ८९ ॥ विश्वामित्रकपालं नारिकेलपात्रं; ‘सृष्ट्यम्बुजं सैन्धववारि’ इत्येके, अपरे तु ‘मूत्रं रजः शुक्रं च’ इत्याहुः । युक्तं तु सृष्ट्य- म्बुजं अरुणायाः षोडशवार्षिकीयाः स्त्रिय आर्तवम् । राजहस्तः सपादकरः ॥ मतान्तरं सुगमं च— कदर्थनेनैव नपुंसकत्वमेवं भवेदस्य रसस्य पश्चात् । वीर्यप्रकर्षाय तु भूर्जपत्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ ९० ॥ १ ‘पातैर्मन्दः शान्तो’ ख. ।