आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 50, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ३१ अतस्तल्लक्षणमाह—वह्निव्यतिरेकेऽपि रसग्रासीकृतानां (लो- हानां) द्रवत्वं गर्भद्रुतिः ॥ बीजानां संस्कारः कर्तव्यस्तार्प्यसत्त्वसंयोगात् । येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥ २२४ ॥ शिलया निहतं नागं ताप्यं वा सिन्धुना हतम् । ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ २२५ ॥ अथ दोलाजारणम् ।— षडम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते । बहिश्च बद्धे वस्त्रेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥ क्षारारनालमूत्रेषु स्वेदयेत्रिदिनं भिषक् । क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ २२७ ॥ इति गर्भद्रुतिः ॥ अथ ग्रासस्य चारणप्रमाणम् । चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ २२८ ॥ चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः । जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥ ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ २३० ॥ अन्यत्तु दुर्जरत्वान्न लिखितम् । भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति । यथा— पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वाऽऽदौ । गर्भद्रावे निपुणो जरयति बीजं कलांशेन ॥ २३१ ॥ १ 'कोऽपि तादृशः प्रथमम्' इति रसहृदये पाठः । २ 'रसराजस्याम्ल्यो- गेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतीत्यर्थः ।