आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 61, कुल 232 में से
संदर्भ में पढ़ें४२ आयुर्वैदीयग्रन्थमाला। [ अध्यायः अथान्यः प्रकारः— पुष्पितमनोजमन्दिरमध्ये सूतो नियन्त्रितो युक्त्या । बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ॥ ३१० ॥ इति रसबन्धनम् ॥ अथान्येऽपि बन्धभेदास्ते यथा— पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे । येन येन हि चाञ्चल्यं दुर्ग्रहत्वं विनश्यति ॥ ३११ ॥ रसराजस्य संप्रोक्तो बन्धनार्थो हि वार्त्तिकैः । हठारोटौ तथाऽऽभासः क्रियाहीनश्च पिष्टिका ॥ ३१२ ॥ क्षारः खोटश्च पाटश्च कल्कबन्धश्च कज्जली । सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ॥ ३१३ ॥ शृङ्खलाद्रुतिबन्धौ च बालश्चैव कुमारकः । तरुणश्च तथा वृद्धो मूर्तिबन्धस्तथाऽपरः ॥ ३१४ ॥ जलबन्धोऽग्निवन्धश्च सुसंस्कृतकृताभिधः ॥ महाबन्धाभिधश्चेति पञ्चविंशतिरीरिताः ॥ ३१५ ॥ केचिद्वदन्ति षड्विंशो जलौकाबन्धसंज्ञकः । स तावन्नेष्यते देहे स्त्रीणां द्रावे प्रशस्यते ॥ ३१६ ॥ अन्यमते चत्वार एव बन्धाः; ते यथा— पाटः खोटो जलौका च भस्म चांपि चतुर्थकम् । बन्धश्चतुर्विधो ज्ञेयः सूतस्य भिषगुत्तमैः ॥ ३१७ ॥ अस्य लक्षणानि— पाटः पर्पटिकाबन्धः पिष्टीबन्धस्तु खोटकः । जलौका पक्वबन्धः स्याद्भस्म भस्मनिभं भवेत् ॥ ३१८ ॥ सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च । ऊर्ध्वं सिन्दूरकर्पूररसावन्यदधो भवेत् ॥ ३१९ ॥ १ 'चान्त्र' ग. ।