आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 62, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ४३ अथ हठादीनां लक्षणानि— हठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः । स सेवितो नृणां कुर्यान्मृत्युं व्याधिसमुद्भवम् ॥ ३२० ॥ सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥ ३२१ ॥ पुटितो यो रसो याति योगं१ त्यक्त्वा स्वभावताम् । भावितो २वायुमूलाद्यैराभासो गुणवैकृती ॥ ३२२ ॥ असंशोधितलोहाद्यैः साधितो यो रसोत्तमः । क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥ ३२३ ॥ तीव्रातपे गाढै३तरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा । ख्यातः स सूतः किल पिष्टिबद्धः संदीपनः पाचनकृद्विशेषात् ॥ शङ्खशुक्तिवराटाद्यैर्योऽसौ संसाधितो रसः । क्षारबद्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥ ३२५ ॥ बद्धो यः स्फो(खो)टतां याति ध्मातो ध्मातः क्षयं व्रजेत् । खोटबद्धः स विज्ञेयः शीघ्रं सर्वविषापहः ॥ ३२६ ॥ द्रुतकज्जलिका मोचापत्रके चिपिटीकृता । सं पाटः पर्पटी सैव बद्धश्चाखिलरोगनुत् ॥ ३२७ ॥ मोचापत्रं कदलीपत्रम् ॥ स्वेदाद्यैः साधितः सूतः कल्कत्वं समुपागतः । कल्कबद्धः स विज्ञेयो योगो४क्तफलदायकः ॥ ३२८ ॥ कज्जली ५रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा । तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥ ३२९ ॥ भस्मीकृतो नश्यति वह्नियोगाद्रसः सजीवः खलु संप्रदिष्टः । संसेवितोऽसौ न करोति भस्मकार्यं जराव्याधिविनाशनं च३३० १ 'योगयुक्त्या खवासनाम्' ग. । २ 'धातुमूलाद्यै-' ग. । ३ 'गाढतरे विमर्दात्' ग. । ४ 'योगेन फलदायकः' क. । ५ 'रसगन्धाभ्याम्' ग. ।