आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 66, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ४७ अथानुपानानि— वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं पित्ते सैलं सितेन्दु व्रणवति तुवरागुग्गुलुश्चारुशुद्धः । चातुर्जातेन पुष्टौ हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७ अथ गुणाः— [हाशिये पर हस्तलिखित: ज्वरसेधे] अपहरति रोगवृन्दं दृढयति कायं महद्बलं कुरुते । शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ ३५८ ॥ स्मरस्यायुर्नानागदगहनदावानलशिखा परं वह्नेस्तेजो बलरुचिरतावल्लिमुदिरः । अपि प्रौढस्त्रीणामतुलबलहारी निधुवने रसः सिन्दूराख्यः सकलरसराजो विजयते ॥३५९॥ मुदिरो मेघः ॥ कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् । करीरं चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ॥ यस्य रोगस्य यो योगस्तेनैव सह योजितः । रसेन्द्रो हरते व्याधीन्नरकुञ्जरवाजिनाम् ॥ ३६१ ॥ अथ रसकर्पूरः । गैरिकतुवरीखटिकासैन्धवगडजं रजः कुडवम् । प्रत्येकं दृढहण्ड्यामाधायास्योपरि रसः स्थाप्यः ॥ ३६२ ॥ कुडवमितोऽथ तदूर्ध्वं देया हण्डी तदास्यायतमुखी । अथ तत्सन्धेर्मुद्रां कृत्वा तदधो हुताशनो ज्वाल्यः ॥३६३ अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलैः । अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्विनिशम् ॥ ३६४ ॥ तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसंनिभं सूतम् । आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ ३६५ ॥