आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 72, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ५३ अथान्यच्च ।— कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुतः । सप्तधा म्रियते सूतः स्वेदितो गोमयाग्निना ॥ ४१२ ॥ अथान्यच्च ।— अपामार्गस्य बीजानि तथैरण्डं च चूर्णयेत् । तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥ ४१३ ॥ रुद्ध्वा पचेल्लघुपुटैश्चतुर्भिर्भस्मसां व्रजेत् । अथान्यच्च ।— खरमञ्जरिबीजान्वितपुष्पकबीजैः सुचूर्णितं कल्कम् । कृत्वा सूतं पुटयेद्दृढमूषायां भवेद्भस्म ॥ ४१४ ॥ अन्यच्च ।— काकोडुम्बरिकाया दुग्धेन विभावितो हिङ्गुः । मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥ ४१५ ॥ इति भस्मसूतः ॥ अथ जलौकाबन्धः । बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् । नीरसानामपि नृणां योषा स्यात्सङ्गमोत्सुका ॥ ४१६ ॥ बाल्ये चाष्टाङ्गुला योनौ यौवने च दशाङ्गुला । द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ४१७ ॥ सा यथा ।— मुनिपत्ररसश्चैव शाल्मलीवृन्तवारि च । जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥ ४१८ ॥ श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च । कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद्बुधः ॥ ४१९ ॥ जलौका जायते दिव्या रामाजनमनोहरा । सा योज्या कामना(का)ले तु कामयेत्कामिनी स्वयम् ४२०