आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 76, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ५७ फलम् ।— तीक्ष्णजीर्णस्य लक्षायुः पलमात्रस्य भक्षणात् । एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ॥ ४५१ ॥ तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् । भस्मनः शुल्वजीर्णस्य लक्षायुः पलभक्षणात् ॥ ४५२ ॥ कोट्यायुर्ब्रह्म-आयुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ ४५३ ॥ अथ हेमजीर्णस्य फलम्— भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ ४५४ ॥ अस्यानुपानम् ।— गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निवलावलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं व्रजेत् ॥ ४५५ ॥ एको दोषो हि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ ४५६ ॥ नारीसङ्गादिना देवि अजीर्णं तस्य जायते । मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ ४५७ ॥ तस्मादजीर्णशमनोपायमाह— युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् । लघुतां शेफसो ज्ञात्वा पश्चाद्गच्छन् सुखी भवेत् ॥ ४५८ ॥ ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ॥ ४५९ ॥ अथ रससेवनकर्तुराहारादिनियममाह— अतिपानं चात्यशनमतिनिद्राऽतिजागरम् । स्त्रीणामतिप्रसङ्गं च आध्मानं च विवर्जयेत् ॥ ४६० ॥